________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १९ ।
२१९
क्वचिद् विधिनिषेयोनिषेधान्तरं यथा"उश्चिणसु पडियकुसुमं मा धुण सेहालिय हलियसुण्हे ? । एस अवसाणविरसो ससुरेण सुओ वलयसद्दो ॥"
[स० श० ९५९]
m
च त्वयाऽवत्या गृहपतिदुहिताऽवश्यं द्रष्टव्या यथाऽयं तवोभयविषयाभिरूपतामदो यास्यति, प्राप्स्यसि च दृष्टिफलम् । सा च गृहपतिदुहितेति तस्या दुर्ललितास्वेन स्वाच्छन्द्य, ग्रामस्य हतत्वोक्त्या चान दुष्टं व्यवहरन्त्या अपि तस्याः कोऽपि निवारको नास्ति, दुर्लङ्घयवागुरेति कथनेन रूपयौवनसमृद्धत्वं युवजनाकर्षकत्वं च सूच्यते । तथा चानेनैव पथा प्रजेति विधिः प्रतीयते । अत्रान्येन पथा व्रज, नानेनेति रीत्या विधिनिषेधावुभावुक्तावपि विध्यन्तर एव पर्यवस्यतो न तु स्वार्थे तयोस्तात्पर्यम् ॥ __ अथ विधि-निषेधयोरुभयोः सतोरपि निषेधान्तरप्रतीतिरुदाहियते-उञ्चिणसु इति-"उच्चिनु पतितानि कुसुमानि, मा धुनीः शेफालिकां हालिकस्नुषे ! । एष तेऽवसानविरसः श्वशुरेण श्रुतो वलयशब्दः ॥” इति संस्कृतम् । क्वचिदिह 'विसमविरावो' इति पाठः समुपलभ्यते तस्य च 'विषमविरावः' इति च्छाया । काचिद् गृहपतिस्नुषा अविनीतकामुकेन पुष्पवाहिकायामुढेलं क्रीडन्ती वलयशब्देन बहिरपि श्रूयमाणा गोपनकामनया बहिःस्थितया सख्या प्रतिबोध्यतेहे हालिकनुषे!-हलवाहपुत्रवधु ! क्रियाकौशलानभिज्ञे !, पतितानि-वृक्षाद् भूतले स्वयं निपतितानि, कुसुमानि-शेफालिकायाः पुष्पाणि, उच्चिनु-संगृहाण, शेफालिकां-श्वेतनिर्गुण्डीलता मा धुनीः-पुष्पाणि पातयितुं मा कम्पय, यतः, अवसानविरसः-अत्यन्तविकृतः, तव, वलयशब्दः-कङ्कणध्वनिः, एषः-यो मया प्रत्यक्षीक्रियमाणः, स श्वशुरेण-त्वत्पतिपित्रा श्रुतः, तस्य चास्यां लतायां महानादर इत्यस्यामधिकं धुतायामसौ कुप्यति । अत्र पतितकुसुमानि उञ्चिन्विति विधिः, शेफालिका मा धुनीरिति निषेधः, तयोरुभयोरिह केवलमन्यं प्रति वक्तव्यत्वेन, हालिकस्नुषां प्रति तु चौर्यरते-एव मवसानकालिकः पुरुषे श्रान्तेऽन्ते विपरीतरतप्रसक्तौ नायिकाया विशेषचेष्टया तत्समय एव वलयशब्दस्याधिक्येन स तत्कालिकतयोक्तः, स च यद्यपि विशिष्टरसयुक्तस्तथापि परश्रवणगोचरतया तव रसस्य विरूद्धो भविष्यतीति विरसत्वं तस्येति स निवारयितव्य इति ध्वनिः ।
For Private And Personal Use Only