________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
सालङ्कारचूडामणौ काव्यानुशासने
अत्र गच्छ वा तिष्ठ वेत्यविधिनिषेधे जीविताशा बलवती धनाशा दुर्बला ममेति वचनात् त्वया विनाहं जीवितुं न शक्नोमीत्युपक्षेपेण गमननिषेधः प्रतीयते । क्वचिद् विधिनिषेधयोर्विध्यन्तरं यथा“नियदइयदसणुक्खित्त! पहिय ! अन्नेण वच्चसु पहेण । गहवइधूआ दुल्लंघवाउरा इह हयग्गामे ॥" [स० श० ९५७ ] अत्रान्येन पथा बजेति विधि-निषेधयोरभिधाने हे स्वकान्ताभिरूपताविकत्थन ! पान्थ ! अभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति विध्यन्तरं प्रतीयते । एव । तदाह-गच्छ वा तिष्ट वेत्यविधिनिषेधे इति । गच्छेति विधिः, तिष्ठेति गमनाभावप्रयोजकस्थितिविधेनिषेधरूपत्वान्निषेध एवेत्यविधिनिषेधत्वं स्पष्टम् ॥
क्वचिद्विधिनिषेधयोरुभयोः सतोर्विध्यन्तरमेव प्रतीयते, तदुदाहरति-यथानियदइयदसणेति-निजदयितादर्शनोत् क्षिप्त ! पथिक ! अन्येन व्रज पथा। गृहपतिदुहिता दुर्लङ्घया वागुरा इह हतग्रामे ॥ इति संस्कृतम् । निजदयितायाःनिजवध्वाः अदर्शनेन उत्क्षिप्त ! भ्रान्तान्तरङ्ग ! पथिक! पान्थ ! अन्येन-सम्प्रति समधिष्ठिताद्भिनेन, पथा व्रज-गच्छ, [मार्गान्तराश्रयणपूर्वकप्रयाणेनैव त्वया स्वग्रामः शीघ्रं प्राप्तुं शक्यते, येन च स्वीयदयिता द्रष्टुं शक्यते, यामनीक्षितवतस्तवेयान् सम्भ्रमो दृश्यते] नन्वयमपि मार्गोऽस्मद्रामाभिमुखमेव प्रयाति, तथा चानेनापि ग्रामप्राप्तिर्निश्चितैवेति किमिति मार्गान्तरोपसर्पणमादिशसीति चेदनाह इह त्वया सम्प्रति प्रविश्यमाने, हतग्रामे-दुःशीलखवटे, गृहपतिदुहिता-ग्राममुख्यस्य कन्या, दुर्लक्ष्यवागुरा-दुरतिक्रमः पाशः । अयमाशयः-खं स्वप्राणप्रियाविरहोस्कण्ठितो येन मार्गेण चलितोऽसि तेन पथा व्रजता त्वयाऽस्य ग्रामस्य मुख्यगृहपतेर्दुहिताऽवश्यं द्रष्टव्या, तस्यां च दृष्टायां तव तद्रूपलावण्याहृतचेतसस्ततो गमनं झटित्यसम्भावितमिति यदि स्वदयितां शीघ्रं द्रष्टुमिच्छसि तर्हि त्यजैनं मार्गमिति वाच्योऽर्थः । अथ किं व्यज्यते तदाह-अत्रान्येन पथेत्यादिना । एवं सम्भ्रममालोक्य ते स्वकान्ताया अभिरूपता ख्याप्यते, त्वमपि च तामेव स्वसमानामभिरूपां जानासि नान्यामिति, त्वया स्वीयमप्यारूप्यं मन्यते, तथा
For Private And Personal Use Only