________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १९ ।
२१७
अत्र विधिनिषेधयोरनभिधाने अहमेकाकिनी, ग्रामो दूर इति विविक्तोपदेशानितम्बवासोपि मे हरेति विधिः प्रतीयते । क्वचिदविधिनिषेधे निषेधो यथा"जीविताशा बलवती धनाशा दुर्बला मम । गच्छ वा तिष्ठ वा कान्त ! स्वावस्था तु निवेदिता ॥"
"मधुकः किं वा पान्थ ! यदि हरसि निवसनं नितम्बात् ।
कथयामि कस्यारण्ये, ग्रामो दूरेऽहमेकाकिनी ॥” इति संस्कृतम् । अरण्ये मधुकपुष्पाणि चिन्वन्ती वनितां दृष्ट्वा साभिलाषः पथिकस्ततो मधुकानि ययाचे, ततः सा तस्य भावं विज्ञायाह-'हे पान्थ !, मधुकैः किं-मधुकानां याचनया किं गोपयसि स्वाभिप्राय, यदि नितम्बात् निवसनमपि हरसि तथापि अस्मिन्नरण्ये कस्मै कथयिष्यामि न च कस्यापि इहागमनशङ्काऽपि, यतो ग्रामो दूरे, त्वया सह काचिदन्येह तिष्ठन्ती सम्भाव्यत इति चेदत्राह-अहमेकेति । अत्र व्यङ्ग्यं दर्शयति—अत्र विधिनिषेधयोरनभिधान इत्यादिना-न चात्र विधिरुक्तो नवा निषेधः, तथापि 'अहमेकाकिनी [स्वतन्त्रा] ग्रामो दूरे' इति विविक्तोपदेशान्नितम्बवासोऽपि मे हर इति विधिः प्रतीयते एव, कस्मै कथया मीत्याधुक्त्या च तस्य भयापनोदनं कृतमिति विज्ञेयम् ॥
तुल्यन्यायेन विधिनिषेधयोरुभयोरभावे निषेधं व्यङ्गय मुदाहरति-जीविताशा बलवतीति
धनोपार्जनाय परदेशं यियासोः प्रियतमस्य यात्रानिश्चयं विज्ञाय 'गच्छेयं न वा' इति तेन पृष्टा वा नायिका 'मा गाः' इत्यस्य मङ्गलतया, तिष्ठेत्यस्य प्रभुताद्योतकतया, गच्छेत्यस्य स्वप्रतिकूलतया च विधि-निषेधयोः कथनेऽक्षमा प्राह हे कान्त ! कामनाविषयीभूत ! मम जीविताशा बलवती कथञ्चित् त्वदागमनपर्यन्तं जीवेयमित्येव प्रयत्नेनाशास्यते, जीवनस्यैवाशास्यत्वेनानिश्चितत्वे च धनाशा त्वयि समागते त्वदानीतधनोपभोगाशा च सुतरां दुर्बला, ततश्च मया स्वीयावस्था निवेदितैव, तां विज्ञाय, गच्छ वा तिष्ठ वेति । तथा च विधि-निषेधाभावेऽपि त्वयि गते त्वदायत्तजीविताऽहं न जीविष्यामीति प्रतिपादनद्वारा निषेधो गम्यत
For Private And Personal Use Only