SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१६ सालङ्कारचूडामणी काव्यानुशासने अत्र यथा वयं न मुष्यामहे तथा त्वं जागृहीति विध्यभिधाने रात्रिरत्यन्धकारा, पतिः प्रोषितः, गृहं शून्यम्, अतस्त्वमभयो मत्पार्श्वमागच्छेति विध्यन्तरं प्रतीयते । वचिन्निषेधे निषेधान्तरं यथा "आसाइयं अणारण जेन्तियं तेत्तियण बंध दिहिं । ओरमसु वसह ! इहि रक्खिजइ गहवईच्छिन्तं ॥" [ स० श० ९५८ ] अत्र गृहपतिक्षेत्रे दुष्टवृषवारणापरे निषेधवाक्ये उपपतिनिवारणं निषेधान्तरं प्रतीयते । क्वचिदविधिनिषेधे विधिर्यथा " महुएहिं किं व पंथिय ! जइ हरसि नियंसणं नियंवाओ । सामि कस्स रने गामो दूरे अहं एक्का || " [ स० श० ८७७] Acharya Shri Kailassagarsuri Gyanmandir _______ च सन्निहित प्रतिवेशि पुरुष कृत प्रवेश स्मरक्रीडादिर खिलोऽप्यर्थः समुयोतितः । तथा चोक्तं वृत्तौ - अत्र यथा वयं न मुष्यामहे तथा जाग्रहीत्यादिना । तथा च समीपोपसर्पणपूर्वकनिधुवनादिविधियज्यत इति ॥ एवं विधौ विध्यन्तरव्यञ्जनरूपविशेषमुक्त्वा प्रतिषेधे प्रतिषेधान्तरध्वनिरूपं विशेष मुदाहरति- असाइयं अण्णापणेति "आसादितमज्ञातेन यावत् तावता बधान धृतिम् । उपरम वृषभेदानीं रक्ष्यते गृहपतिक्षेत्रम् ॥” इति संस्कृतम् । 2 काचिदुपपतिं निवारयन्ती वृषभाऽन्योक्त्या आह- हे वृषभ ! अज्ञातेनक्षेत्रपतिनाऽनवलोकितेन, यावत्, आसादितं क्षेत्रगतं धान्यादि भक्षितं तावता धृतिं - संतोषं बधान, इदानीं रक्षकेन गृहपतेः क्षेत्रं रक्ष्यते, आगतो रक्षकस्तेन चावलोकने बन्धनादिसम्भावनेत्युपरमेति वाच्यम् । हे वृषभ ! - वृषवद् यतस्ततः सर्वासु गमनशील ! जार ! गृहपतिनाऽज्ञातेन यावत्कालं स्वया तदीयक्षेत्रस्य [ दाराणाम् ] उपभोगः कृतस्तावतैव संतोषं कृत्वा साम्प्रतं, तस्य क्षेत्रस्य रक्षके गृहपतौ समागते उपरमेति निषेधान्तरं च व्यङ्ग्यमित्यत्र 'गृहपतिक्षेत्रम्' इत्यादिनोक्तम् ॥ एवं चतुर्विधं वैचित्र्यं प्रतिपाद्य क्वचिदू विधि-निषेधयोरुभयोरभावेऽपि विधिप्रतीतिस्थलमाह - महुएहिं किं वेति । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy