SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १९ । २१५ अत्रावयोः शय्याया मा निषत्स्यसीति निषेधवाक्ये 'इयं श्वश्रू शय्या 'इयं मच्छय्या' इति दिवाप्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते। क्वचिद् विधौ विध्यन्तरं यथा"बहलतमा हयराइं अज पउत्थो पई घरं सुन्न । तह जग्गिज सयज्झय! न जहा अम्हे मुसिजामो" [गा० स० ४. ३५. स० श० ३३५] बोधकः कन् , तस्मात् सम्प्रति केवलं परस्परावलोकनसुखमेवानुभवावः, पथिक !' राज्यन्धक !' इति सम्बोधनं च चेति तेऽपि तव न दोषावहम् , इति न भेतव्यमिति सूचितम् । रात्रावधिकमदनोद्रेकादेवान्ध इति वा रात्र्यन्धेति व्यङ्ग्यम् , तेन च शय्याविभागानभिज्ञताऽपि । शय्यायां मा शयिष्ठा अपि तु मयि मा आवयोरपि तु मय्येव, मा शयिष्ठा अपि तु प्रहरचतुष्टयमपि निधुवनेन क्रीडाबहे, इत्यादिक, मनेकमर्थ 'अहम्' इति निपातो द्योतयति । आवयोर्न तु ममेत्युक्त्वा विशेषवचनेन शङ्काऽपनोदिता । अत्र कथं विधेय॑ङ्गयत्वमित्याह-अत्रावयोरित्यादिनाइत्थं हि शय्यायामापतनस्य निषेधो वाच्यः, व्यभिचारिणोः प्रतिपाद्यप्रतिपादकतया चेयं श्वश्रूशय्येयं च ममेति दिवाप्युपलक्ष्य रात्रौ त्वया निःशङ्कमागन्तव्यमिति विधिव॑न्यते। क्वचिद् विधौ वाच्ये विध्यन्तरप्रतीतिर्यथा-बहलतमा हयराइं इति-बहलतमा हृतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम् । तथा जागृहि प्रतिवेशिन् ! न यथा वयं मुष्यामहे ॥ इति संस्कृतम् । हृतरात्रिः-निन्दापात्रमियं निशा। बहलं-बहुतमोध्वान्तं यस्यां तथाभूता, प्रगाढान्धकारा, पतिः-स्वामी, [न तु प्रियः] अद्य प्रोषित:-अयैव प्रवासाय गतः, गृहं शून्य-जनसंपर्करहितम् , हे प्रतिवेशिन् !समीपतमगृहवासिन् !, तथा-तेन प्रकारेण, जागृहि-निवृत्तनिद्रत्वमुपेहि, यथा-येन प्रकारेण, वयं न मुण्यामहे । अन्न स्वामीत्युक्त्या तद्गतप्रीतिविरहसूचनद्वारा तद्विषयकचिन्ताशून्यत्वप्रकटनेन मन्मथविलसितस्याबाधप्रसरत्वमुक्तम् । अद्य प्रोषित इति तत्परावर्तनजन्याया भीतेरभावः सूचितः । गृहं शून्यमित्यनेन परकर्तृकविघ्नराहित्यं धोतितम् । प्रतिवेशिन्नित्यनेन गृहान्तरावस्थितजनकर्तृकदर्शन-विषयत्वेऽपि त्वयि कार्यान्तरप्रयुक्तागमनसमर्थनसम्भावनया क्षत्यभावः । 'वयम्' इत्यनात्मीयत्वमात्मनि बद्धाशत्वं चोक्तम् । तथा यथा पदाभ्यां For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy