SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २१४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने वचिन्निषेधे विधिर्यथा "अत्ता एत्थ तु मज्जइ एत्थ अहं दिवसयं पुलोपसु । मा पहिय ! रत्ति अंधय ! सेजाए महं नु मज्जिहसि ॥” [ गा० स० ७.६७. स० श० ६६९ ] wwwww कारणसवेsपि भीरोर्भ्रमणं भवतीत्यनैकान्तिकत्वं हेतोः अथवा शुनः कृपापात्रत्वेनाप्रतीकार्यत्वं तदीयस्पर्शस्याशुक्तिकरत्वं चेति हेतोरयं धार्मिकस्ततो बिभेति, सिंहे तेजस्विनि तु पराक्रमं प्रदर्शयितुं शक्नोतीति विरुद्धश्चेति दोषत्रयदुष्टेनानेन हेवाभासेन कथमनुमानं स्यात् ? व्यञ्जनावादिनस्तु एवं विधाद् [ विधिरूपात् ] अर्थादेवंविधः [ निषेधरूपः ] अर्थः, उपपत्तिव्याध्यादि युक्त्यनपेक्षत्वेऽपि प्रतीयते, इत्यसिद्धत्वादिकं न दूषणमिति तथा चोक्तमुयोते- व्यभिचारस्फूर्तिमतामपि सामाजिकानामसत्यपि पक्षधर्मतानिश्वये संभावितादप्यर्थाद व्यक्तेरुदयादिति, किञ्च व्याप्तिस्मरणादिकल्पनातो व्यञ्जनायाः कारणत्वकल्पनमेवोचितमिति न चोपपत्त्यनपेक्षत्वेऽपि व्यङ्ग्यप्रतीत्यभ्युपगमेऽतिप्रसङ्ग इति वाच्यम्, वक्रादिवैशिष्ट्यस्य नियामकत्वात् एवं चावाग्गोचरब्रह्म [ तत्स्वरूपरस ] प्रदिपादिकेयं व्यञ्जनावृत्तिब्रह्मणाऽप्यपलपितुमशक्येति संक्षेपः । तस्मात् साधूक्तम्- 'अत्र विस्रन्धो भ्रमेति विधिवाक्य ० ' इत्यादिना वृत्तिग्रन्थेनात्र निषेधस्य व्यङ्ग्यत्वम् । , क्वचिन्निषेधे विधेयञ्जनमाह- क्वचिन्निषेधे विधिरिति । अत्ता एत्थेति श्वश्रूरन निमज्जति, अत्राहं दिवसकं प्रलोकय, मा पथिक ! राज्यन्धक ! आवयोः शय्यायां माङ्क्षीः ॥ इति संस्कृतम् । हे रात्र्यन्धक ! -तैमिरिक !, पथिक ! - पान्थ !, अत्र - अस्मिन् स्थाने, श्वश्रूः - मत्पतिजननी, निमज्जति जराधिक्येन निश्चेतनं शेते, अत्र - तदितरस्थाने अहं ( शये ) तत् स्वं दिवसकं-दिनं व्याप्य, सम्यक् पश्य [ अन्यथा ] आवयोः श्वश्रू स्नुषयोः शय्यायां मा माडीः निःसंज्ञो मापतेः । अत्र वधूरित्यनेनासहिष्णुत्वं व्यज्यते, तेन चाभिलाषस्य गुप्तत्वेन पोषणीयत्वं व्यज्यते, तेन चाभिलाषस्य गुप्तत्वेन पोषणीयत्वं प्रतीयते । ननु तर्हि कथमवसर इति शङ्कापनोदाय तस्याः सर्वदा भयकारणत्वाभावमाह-अत्र निमज्जतीतिअत्रेत्यनेन स्वस्वापस्थानाद् दूरे स्थितिः, निमज्जतीति निर्जागरणं च स्वापो बोधितः, अन्नेत्यनेन तन्मार्गसमीपदेशः परिचायितः, अहमित्यात्मनोऽङ्गुल्या निर्देशेनोपभोगयोग्यत्वं सूचितम्, 'दिवसक' इत्यत्र साम्प्रतं विघ्नकारित्वेन कुत्सा For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy