SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या ० १ सू० १९ । " wwwwww [ ततो निवर्त्तितुमक्षमा ] हरेः - विष्णोः, दक्षिणनयनं [ सूर्यात्मकं ] स्थगयतिआच्छादयति, इति वाच्योऽर्थः । अत्र सम्बद्धसम्बद्धस्य व्यङ्ग्यत्वं तथाहि - हरिपदेन दक्षिणनयनस्य सूर्यात्मकत्वं व्यज्यते । तनिमीलनेन सूर्यास्तमयः, तेन च कमलसंकोचः, तेन च ब्रह्मणः स्थगनं, तथा सति च रतिक्रीडायास्तेनादर्शनमिति स्वच्छन्दं निधुवनविलसितमिति व्यज्यते । २१३ अथ ये वेदान्तिन इत्थमाहुः - अखण्डवाक्यस्य वाक्यार्थे शक्तिः । तथा च वाक्यगम्ये व्ययेऽपि वाक्यस्य शक्तिरेवेति, तैरपि सांसारिकदशायामाविधिकव्यवहारावलम्बिभिः पदपदार्थकल्पना कर्तव्यैवेति तन्मतेऽप्यवश्यमेव " मम धम्मिय" इत्यादौ व्यञ्जना समाश्रयणीयैव । इत्थं हि वेदान्तिनामभिप्रायः - क्रियाकारकादिपुरस्कारेण शब्दानां प्रवृत्तिर्धर्मधर्मिभावमपुरस्कृत्य न संभवति, धर्मधर्मिभावश्च प्रपञ्चगोरो वा स्याद् ब्रह्मगोचरो वा, नाऽऽद्य :- प्रपञ्चस्य मिथ्यात्वात्, नान्त्यःब्रह्मणो धर्मशून्यत्वात्, अतः पदपदार्थविभागमन्तरेणैव 'सत्यं विज्ञानम्' इत्यादिवाक्यमखण्डमेवाखण्डब्रह्मवाचकमिति प्रतीयमानेऽपि वाक्यस्य शक्तिरेव । तत् तु न शोभनम् - व्यवहारमार्गे तैरपि पदपदार्थकल्पनाया अवश्यमङ्गीकार्यत्वात् । व्यवहारे तेषां भट्टनयस्वीकारात् ॥ महिमभट्टस्त्वेवमाह-वाच्यादसम्बद्धोऽर्थो वाक्यान्न प्रतीयते, तथा सति सर्वस्मात् सर्वप्रतीतिप्रसङ्गात्, सम्बन्धात् व्यङ्ग्य- व्यञ्जकभावो भवन्नवश्यमप्रतिबन्धे [ अनियतसम्बन्धे ] न भवतीति व्याप्तत्वेन, नियतं [ यत् ] विपक्षव्यावृत्तत्वेन रूपेण धर्मिनिष्ठत्वं [ पक्षवृत्तित्वं ] तेन त्रिरूपात् [ सपक्ष सत्त्व - विपक्षासत्त्वपक्ष स्वरूपलक्षणत्रयवतो ] हेतोः [ लिङ्गादेव ] संभवतीति लिङ्गाल्लिङ्गिज्ञानरूपादनुमानान्नासावतिरिक्त इति एवं च "मम धम्मिय" इत्यादौ भीरु - भ्रमणस्य कारणं भयकारणाभावः तद्विरुद्धं च भयकारणं सिंहः, तदुपलब्धेः साध्यस्य भ्रमणस्याभावोऽनुमीयत इति विध्यादौ वाच्येऽपि निषेधोऽनुमानादेव प्रतीयते अनुमानाकारश्च 'इदं गोदावरीतीरनिकुअ श्वभीरुभ्रमण योग्यं सिंहवत्त्वात्' इति, अत्र गोदावरीतीरनिकुञ्ज पक्षः, श्वभीरुभ्रमणायोग्यत्वं सायं, सिंहवरवं हेतुः, विपक्षी ग्रामादिः, सपक्षश्च सिंहादिनिवासवनादिः, तदर्थं व्यञ्जनावश्यकतेति, तन्न युक्तम्- हेतुभूतस्य सिंहस्याप्रमाणभूत-पुंश्चली वाक्यप्रतीतत्वेन संदिग्धासिद्धत्वात् न च तादृशो हेतुः साध्यमनुमापयितुं शक्नोति, किञ्च स्वाम्यादेशेन, अनुरागेण, लोभेनान्येन वा केनचिद् विशिष्टेन कारणेन भय For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy