SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १९ । २०९ तारेरपि-मारितशत्रोरपि, तव, असौ-प्रसिद्धा, कीर्तिरेव वल्लभा-प्रिया [स्त्री ], एभिः-शत्रुभिः, अपगताङ्गैः-हीनाङ्गैरपि, किं त्रिदिवं-स्वर्ग, न नीता--अपि तु नीतैवेत्यर्थः । अत्र जीवत्येव रक्षणसमर्थे त्वयि त्वप्रियाया हीनाङ्गः शत्रुभिरपहरणात, मृतानां तेषां श्रीहरणे ते गोऽनुचित इत्यापाततः प्रतीयमानया निन्दया सकलशत्रुविनाशनेन त्रैलोक्यश्रुतकीर्तिस्त्वमिति वस्तु व्यज्यते । तथा च वाच्यव्यङ्ग्ययोरत्यन्तं भेदः ॥ एवं-- "हे हेलाजितबोधिसत्व ! वचसा कि विस्तरस्तोयधे ! नास्ति स्वत्सदृशः परः परहिताधाने गृहीतव्रतः॥ तृष्यत्पान्थजनोपकार-घटनावमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥" [पुञ्जराजः-वाक्यपदीयटीकायां २,२४९ ] हेलया-अनासेन, जितो बोधिसत्त्वो-बुद्धो येन सः, तत्सम्बुद्धौ-हे हेलाजितबोधिसत्त्व [बुद्धस्यातिकारुणिकत्वप्रसिद्धेस्ततोऽपि विशिष्टः कारुणिकस्त्वमसीति भावः] तोयधे-जलनिधे [लवणाकर !] वचसां विस्तरैः किम् ?, परहिताधाने-परोपकारकरणे, गृहीतं व्रतं-नियमो येन स, त्वत्सदृशः-त्वया समः, परोऽन्यो नास्ति, यत्-यस्मात् कारणात्, तृष्यन्तः-तृषार्ताः, पान्थजनाः-पथिकाः, तेषां य उपकार:-जलदानेन तृषाच्छेदरूपः, तस्य घटनायां-सम्पादनविषये, वैमुख्येनपराङ्मुखत्वेन, लब्धं-प्राप्तं, यत्, अयशः-अकीर्तिः,तस्य यो भारो महदाधिक्य, तस्य प्रोद्वहने-प्रकर्षण समुत्तोलनरूपे निर्वहणविषये, मरो:-म्रियते पिपासया जन्तुर्यस्मिन् स मरुः, तस्य निर्जलदेशस्य, ['मारवाड' इति प्रसिद्धस्य ] साहायकं साहाय्यं, कृपया करोषीत्यर्थः । अत्र समुद्रस्य स्तुतिव्याजेन निन्दाप्रतिपादनाचमस्कारातिशयः, इति स्तुतिरूपो वाच्यो, निन्दा च व्यङ्ग्येति तयोः स्वरूपे भेदः ॥ पूर्व वाच्यार्थः प्रतीयते, स एव च व्यञ्जक इति व्यङ्गयोऽर्थः पश्चात् प्रतीयत इति वाच्य-व्यङ्ग्ययोः कालभेदोऽपि । वाच्यश्च शब्दमात्रमाश्रयते, व्यङ्गयार्थश्व शब्दार्थ-शब्द-तदेकदेशवर्णसंघटनां श्रयतीति तयोराश्रयभेदोऽपि, वाच्योऽर्थः शब्दानुशासन-व्याकरणाद्यर्थानुशासन-व्याकरणकोशादिज्ञानेन च सर्वैरेव ज्ञातुं शक्यते, व्यङ्ग्यार्थस्तु प्रकरणादिसहायप्रतिभानैमल्यसहितेन शब्दाद्यनुशासनेन का० १४ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy