SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० सालङ्कारचूडामणौ काव्यानुशासने ज्ञायत इत्यवगमप्रकारभेदस्तयोः, वाच्योऽर्थो बोद्धमात्रस्य-सकलबोद्धजनस्य प्रतीतिमात्रविषयो न च चमत्कारकारी, व्यङ्गयार्थस्तु विदग्धव्यपदेशभाजां सहृदयानामेव चमत्कारकृदिति कार्यस्य 'गतोऽस्तमर्कः' इत्यादौ प्रदर्शितदिशा संख्यायाश्च भेदाद् वाच्यार्थादतीव भिन्नः । किञ्च 'कस्स वण होई' इत्याधुदाहियमाणे पद्ये सखीगतत्वेन तत्कालगतत्वेन च विषयस्य भेदः [तत्र वाच्यस्य नायिकाविषयः, व्यङ्गयस्य च "इयं भ्रमरेण दृष्टाधरा न तूपपतिना" इत्यस्य तत्पति. विषयः ] इति, एतावति भेदे सत्यपि यदि वाच्यार्थ-व्यङ्ग्यार्थयोरैक्यं तर्हि क्वचिदपि [नील-पीतादावपि ] परस्परं भेदो न स्यात्, यतश्वोक्तं वृद्धैः-"अयमेव हि भेदो भेदहेतुर्वा यद् विरुद्धधर्माध्यासः कारणभेदो वा" इति, विरुद्धस्य-तदवृत्तेधर्मस्य, अध्यासो-ज्ञानमेव भेदः भेदकारणं वा, किञ्च कारणस्य भेदोऽपि भेदहेतुरिति तदर्थः । उक्तञ्च विरुद्धधर्माध्यासः कारणभेदश्च वाच्यार्थ-व्यङ्गयार्थयोः पूर्वमेवेति तयोर्भेदः सुसिद्ध इति । न केवलं तयोरर्थयोरेव वैधयं, किन्तु तदाश्रययोर्वाचक व्यञ्जकयोरपि, यतश्च वाचकानामर्थापेक्षा, वाचकागृहीतसंकेतं तं तमेवार्थ बोधयन्ति, व्यञ्जकास्तु असदेव पावनत्वादिकं पूर्वमसङ्केतितं तटे बोधयन्तीति न वाचकत्वमेव व्यञ्जकत्वम् । किञ्च "वाणीरकुडंगु" इत्यादौ [द्वितीयाध्याये व्याख्याते पद्ये] प्रतीयमानं 'दत्तसंकेतः कश्चिल्लतागहनं प्रविष्टः' इति व्यङ्ग्यम् , अर्थमभिव्यज्य वाच्यं 'वध्वाः सीदन्त्यङ्गीनीति शब्दप्रतिपाद्यमझावसादरूपं स्वरूपे एव यत्र विश्राम्यति [चारुत्वेन तात्पर्यविषयीभवदास्वाद्यतां गच्छति ] तत्र गुणीभूतव्यङ्ग्ये मध्यमकाव्यप्रभेदे व्यङ्ग्यार्थे तात्पर्याभावादतात्पर्यभूतोऽप्यर्थः प्रतीतिपथमवतरन् व्यञ्जनभिन्नस्य कस्य व्यापारविषयो भवत्विति विचारणीयम् । अयमाशयः-यदुक्तं तात्पर्यविषयेऽर्थे शब्दः प्रमाण, तदनुपपन्न, यतो व्यङ्ग्यस्य वाच्यताभ्युपगमेऽपि नानार्थन्यायेन तात्पर्यादेव नियमो वाच्यः, अन्यथा सर्वत्र सर्वव्यङ्ग्यप्रतीतिप्रसङ्गात् । तथा च यत्र 'वाणीरकुडमुड्डीना' इत्यादौ व्यङ्ग्यप्रतीतावपि वाच्ये एव चारुत्वविश्रामस्तन तात्पर्याविषयो व्यङ्गयोऽर्थः कथं प्रतीयेत ? । यत्परः शब्दः स शब्दार्थ इत्युक्तमतेऽप्ययं दोषो दुर्वारः । एतेन तात्पर्यमेव व्यङ्ग्यप्रतीतो व्यापार इत्यपि निरस्तम् । तस्मात् तात्पर्यमभिधा वा न प्रतीयमानेऽर्थे व्यापारः । ननु व्यङ्ग्यार्थस्य भेदे नानात्वम्, अर्थान्तरसङ्कमितवाच्यत्वादि-विशेषव्यपदेशविषयत्वम्, शब्दार्थोभयाधीनत्वं-प्रकरणादिसापेक्षत्वमित्यादिकारणरूपेणोक्तं तच्च लक्ष्येष्वपीति व्यङ्ग्यस्य लक्षणागम्यत्वमेव For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy