SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सृ० १९ । पपन्नमेवेति वाच्यं, सर्वस्य विभक्ततया प्रतिभासनात् । अयमाशयः -- वाच्य - वाचकभावाद् भिन्नो व्यङ्ग्यव्यञ्जकभाव इत्यवश्यमभ्युपेयं काव्यज्ञानाम्, अन्यथा वाच्यस्यार्थस्याविशेषेण कष्टत्वादीनां शृङ्गारादावेव दोषत्वमन्यत्र नेत्यनित्यत्वम्, असाधुत्वादीनां च सर्वत्र दोषत्वमेवेति या व्यवस्था स्वीक्रियते सा न संगच्छेत विशेषस्य निर्वक्तुमशक्यत्वात् व्यञ्जनायां स्वीकृतायां तु व्यञ्जनीयस्य बहुविधत्वेन रौद्रादौ व्यasनुकूलत्वं शृङ्गारादौ व्यये च दुष्टत्वमिति युज्यते व्यवस्थेति । एवं व्यञ्जनानङ्गीकारे पर्यायेषु मध्ये कस्यचिदेव कुत्रचित् काव्यानुगुणत्वमिति व्यवस्था न स्यात्, वाच्यार्थस्याविशेषात् दृश्यते च सा व्यवस्था, यथा- 3 २०७ "द्वयं गतं सम्प्रति शोचनीयतां, समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी || [ कु० सं० सर्गः -५. श्लोकः - ७१] www " इत्यन 'कपालिनः' इत्यस्य स्थाने 'पिनाकिनः' इति पदप्रक्षेपेन तादृशार्थप्रतीतिर्य' 'कपालिनः' इत्यस्य सत्वे प्रतीयते । इदं हि पद्यं पार्वत्या भावपरीक्षणपरेण ब्रह्मचारिरूपधरेण शिवेनोक्तम्, कान्तिमती कलावतः सा कला, अस्य लोकस्य नेत्रकौमुदीत्वं चेति द्वयं कपालिनः समागमप्रार्थनया सम्प्रति शोचनीयतां गतमित्यन्वयः । कपालधारणादशुचितरस्य शिवस्य समागमः, raisa द्वयेन प्रार्थितं तत एव शोचनीयत्वम्, यदि च पिनाकिपद मिह दीयते तर्हि पिनाकधारिणो वीरमुख्यस्य समागमप्रार्थनया शोचनीयत्वं न समर्थ्येतेतिन तस्येह काव्यानुगुणत्वमितीयं व्यवस्था व्यञ्जनामङ्गीकृत्यैव संगच्छते, वाच्यार्थस्योभयत्र तुल्यत्वात् । किञ्च वाच्यव्यङ्ग्ययोर्वाच्योऽर्थः सर्वसाधारणः, व्यङ्ग्यस्तु नानारूपः प्रकाशत इत्यतोऽपि वाच्याद् व्यङ्ग्यस्य भेदः, तथाहि 'गतोऽस्तमर्कः' इत्यादी वाच्यार्थो न क्वचि - दन्यथा भवति, व्यङ्ग्योऽर्थस्तु तत्तत्प्रकरणवक्तृप्रतिपत्त्रादिविशेषसहायतया नानात्वं भजत एव, तथा चात्र वाच्योऽर्थः सूर्यकर्तृकास्ताचलगमनरूपः सर्वान् प्रत्येक एव, व्यङ्ग्यस्तु युद्धप्रकरणे शत्रु प्रत्यवस्कन्दनस्य प्रसभमाक्रमणस्यावसर इति, रात्रियुद्धस्य छलबहुलत्वेनाधमत्वाद् युद्धनिवर्तनस्य वाऽवसर इति ज्ञायते, पुंश्चल्यां बोधनीयायामभिसरणमुपक्रम्यतामिति, या च जारमेवाभिसारयति तां प्रति प्राप्तप्रायस्ते प्रेयानितिः कर्मणि दिवसं व्यापारितानां परस्परं प्रति कर्मकरणान्निवर्तामह इति; माणवकादिश्रोतृस्थले सान्ध्यो [ संध्यावन्दनादिः ] विधिरुपक्रम्यतामिति For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy