________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
सालङ्कारचूडामणौ काव्यानुशासने प्रयोजनाकाङ्क्षा सम्भवति-किमेषां प्रयोजनमिति; एवं चोभयाऽऽकासया प्रयाजादीनां दर्शपौर्णमासाङ्गत्वं कल्प्यते । समानदेशस्व-स्थानम् , तदेव क्रम इत्युच्यते, तच्च द्विविधं-पाठसमानदेशत्वमनुष्ठानसमानदेशत्वं च, पाठोऽपि द्विविधः-यथासंख्यपाठः सन्निधिपाठश्च । तथा च पाठक्रमेणानुष्ठानक्रमेण चाङ्गत्वं स्थानाख्येन प्रमाणेन कल्प्यते यौगिकः शब्दः-समाख्या, यत्रावयवार्थ एव ज्ञायते स यौगिकः शब्दः, सा द्विविधा-लौकिकी वैदिकी च, याज्ञिकैः परिकल्पिता लौकिकी, वेदे एव प्रसिद्धा च वैदिकी, तत्र तत्र याज्या-पुरोवाक्यापाठादीनि ऋग्वेदप्रतिपादितानि कर्माणि 'होत्रम्' इति लौकिक्या समाख्यया होतुः कर्तव्यानि भवन्ति, यः ऋग्वेदेन कर्म करोति स होतेति समाख्यातत्त्वात् , एवं 'होतृचमसः' इति वैदिक्या समाख्यया होतुश्चमसमक्षणाङ्गत्वमिति दर्शितः, एषां प्रमाणानां स्वस्वविषयः संक्षेपेण, एषां च विरोधे सति पूर्वस्य बलीयस्त्वमिति श्रुतिलिङ्गेत्यादिसूत्रेण प्रतिपाद्यते, यथाक्रममुक्तानां श्रुत्यादीनां द्वयोर्बहूनां वैकत्रोपनिपाते परस्परस्य विलम्बेनार्थोपस्थापकतया दुर्बलत्वं पूर्वपूर्वस्य च प्राबल्यमिति सूत्रार्थः । यदि शब्दश्रुतेरनन्तरोपस्थितान् सर्वानेव प्रत्ययान् प्रति अभिधैव व्यापारः स्यात् तदा श्रुत्युपस्थापितार्थस्येव लिङ्गाद्यनुगृहीतार्थानामप्यभिधेयतया सर्वेषां समकालमर्थोपस्थापकत्वप्रसत्याऽर्थविप्रकर्षाभिधानं जैमिनेरनुचितं स्यात् । तथा च दीर्घदीर्घतराभिधाब्यापारस्वीकारोऽनुचित इति भ्रमधार्मिकेल्यादौ निषेधप्रतिपत्तये व्यञ्जनान्विताभिधानवादिभिरपि स्वीकार्यैव ॥
ननु शब्दश्रुतेरनन्तरं यावानर्थः प्रतीयते स केवलमभिधयैव बोध्यत इति नाभ्युपगच्छामः, किन्त्वाकासादिसापेक्षयाऽभिधयेति श्रुत्यादेः पूर्वपूर्वसहकारेणोत्तरोत्तरस्य बोधकत्वमित्यर्थविप्रकर्षों युज्यत एवेति न जैमिनिसूत्रविरोध इति पूर्वोक्त भ्रमधार्मिकेति पद्ये निषेधो वाच्य एवेति न व्यञ्जना स्वीकार्येति चेत् ? अत्र ब्रूमः'कुरु रुचिम्' इति पदयोपरीत्येन काव्यान्तर्गते पाठे यद् दुष्टत्वं भवति तन्न संगच्छेत, पदपाठवैपरीत्येऽभिधाया वैपरीत्याभावादर्थभेदेन न भाव्यमिति दोषाभावात् , व्यङ्गयस्वीकारे तु 'चिङ'शब्दस्य ब्यञ्जनया स्त्रीगुह्याजोपस्थापकत्वेन दुष्टत्वस्य प्रतीतेः। तथा चैवमादयः काव्यदोषा अपरित्याज्या भवेयुः, किञ्च यदि वाच्यवाचकव्यतिरेकेण व्यङ्ग्य-व्यञ्जकभावो नाभ्युपेयते तदाऽसाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात्; न च तदनु
For Private And Personal Use Only