________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १९ ।
1
2
स्वीक्रियतेऽतिप्रसङ्गात् दृश्यते च पूर्वत्र वाक्ये हर्षोदयः, परत्रानूढाया गर्भिणीत्वश्रुत्या शोकोद्गमश्च स च व्यञ्जनयैव प्रत्याय्यो नाभिधया । किञ्चैवं दीर्घदीर्घतरव्यापारस्वीकारे किमिति लक्षणाऽपि न त्यज्यते । लक्षणीयेऽप्यर्थे तेनैव व्यापारेणसिद्धेः इष्टापत्तिरिति चेत् ? मीमांसका [ अन्विताभिधानवाद्य ] भिमतश्रुतिलिङ्ग वाक्य-स्थान- प्रकरणसमाख्यानां पूर्वपूर्व बलीयस्त्वमपि न संघटेत, सर्वत्र शब्दस्याभिधाव्यापारेणैवार्थप्रत्यायकत्वोपगमे । भयमाशयः- - विध्यादिस्थले परस्परविरोधो दृश्यते, तत्र कुत्र कस्य प्राबल्यमिति निर्णयाय श्रीमता जैमिनिना - "श्रुति- लिङ्ग वाक्य-प्रकरणस्थान- समाख्यानां समवाये पारदौर्बल्यमविप्रकर्षात् [ मी० अ० ३, पा०३, सू० १४] इति सूत्रं निर्मितम् श्रुत्यादीनां लक्षणानि चैवमुक्तानि -
wwwwwww
"
अभिधातुं पदेऽन्यस्मिन् निरपेक्षो रवः श्रुतिः । सर्वत्रावगता शक्तिर्लिङ्गमित्यभिधीयते ॥ संहृत्यार्थं ब्रुवद् वृन्दं, पदानां वाक्यमुच्यते । प्रधानवाक्यस्याङ्गोक्त्याऽऽकाङ्क्षा प्रकरणं मतम् ॥ स्थानं समानदेशत्वं, समाख्या यौगिको रवः ।" इति,
२०५
सामर्थ्यं रूढिरेव, यथा
?
भयमाशयः – स्वकरणीये अङ्गत्वबोधे प्रमाणान्तरनिरपेक्षः शब्दः श्रुतिः, सा च विभक्त्यादिरूपा, यथा- 'व्रीहीन् प्रोक्षति' इत्यत्र द्वितीयाश्रुत्या वीहीणां प्रोक्षणाङ्गत्वम् । शब्दस्यार्थप्रकाशनसामध्यं लिङ्गम्, 'बर्हिर्देवसदनं दामि' इत्यन्न दामीति 'दाप् लवने' इत्यस्य रूपम्, देवसदनंपुरोडाशसदनभूतं बर्हिः - कुशं दामि खण्डयामि इत्यर्थेऽस्य मन्त्रस्य दामीति श्रुतपदसामर्थ्यात् लिङ्गात् बर्हिर्लवनाङ्गत्वम् । परस्पराकाङ्गावशात् क्वचिदेकाभिनार्थे पर्यवसितानि पदानि वाक्यम्, यथा- 'देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामभये त्वा जुष्टं निर्वपासि' इति मन्त्रे निर्वपामीति लिङ्गेन निर्वा विनियुज्यमानस्य समवेतार्थभागस्यैकवाक्यताबलेन 'देवस्य त्वा' इत्यादिभागस्यापि निर्वापे एव विनियोगः परस्पराकाङ्क्षाप्रकरणम्, यथा-'दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत' इत्यत्र दर्शपौर्णमासयागाभ्यां स्वर्गं भावयेदिति बोधानन्तरं कथमाभ्यां स्वर्गं भावयेत् इत्याकाङ्क्षा भवति । एवं 'समिधो यजति, तनूनपातं यजति, भाज्यभागौ यजति' इत्यादिवाक्यैः फलरहिताः प्रयाजादयस्तत्सन्निधौ पठिताः । तेषां च
For Private And Personal Use Only