SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ सालङ्कारचूडामणी काव्यानुशासने इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तकस्वक्रियाभिसम्बन्धात् साध्यायमानतां प्रामुवन्ति ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावदेव विधीयते 'यथा रक्तं पटं वय' इत्यादावेकविधिढिविधिस्त्रिविधिर्वा । अयमाशयः-भूतंसिद्ध कारकादि, भव्यं-साध्य क्रियारूपं, तयोः समुच्चारणे-समभिव्याहारे-सहोच्चारणेवा, भूतं-सिद्धं, भव्याय-साध्याय-साध्यार्थतयोपदिश्यते, अज्ञातं ज्ञाप्यत इति न्यायार्थः । भूतं ननु कारकपदार्थानामक्रियारूपत्वात् कथं प्रवर्तनाविषयत्वमिति चेत् , सत्यम्- कारकपदार्थाः 'गामानय' इत्यादौ गां इत्यादय आनय. नादिक्रिया पदार्थेनान्वीयमानाः प्रधानानयनक्रियानिर्वर्तकचलनादिरूपस्वक्रियाभिरभिसम्बन्धात् साध्यायमानतां प्राप्नुवन्ति, ततश्च तृणभस्मसमूहे स्थितो वह्निरदग्धं तृणमेव दहति, न तु दग्धं भस्मेतिवद् यावदसिद्धं तावदेव साध्यतां व्रजति, न तु सिद्धं कारकादि तावदेव च विधेयमिति तत्रैव विधेस्तात्पर्यमप्राप्तप्रापणार्थत्वात् तस्य यथा रक्तं पटं वयेत्यादौ रक्तगुण-पटभाव-वयनानां मध्ये यत्रैक रक्तत्वमेव निवर्तनीयं तत्रैकविधिः, यत्र रक्तत्वं सूत्रेषु सिद्धं तत्र पटभाव-वयनयोर्द्वयोरेव विधिः, यत्र सर्वमसिद्धं तत्र त्रयाणामपीति भवति, तथा यावत् साध्यं तावत् परत्वमेव वाक्यस्य स्वीक्रियत इत्येव तात्पर्यम्-'यत्परः शब्दः स शब्दार्थः' इत्यस्य, ततश्च यदेव विधेयं तत्रैव तात्पर्यमित्युपात्तस्यैव [उच्चारितस्यैव शब्दस्यार्थे वाच्ये तात्पर्य न तु प्रतीतमात्रे, तथा सति पूर्वो धावतीत्यस्यापरो धावतीत्यत्रापि कदाचित् तात्पर्य स्यात् । ननु उपात्तस्यैव शब्दस्यार्थे तात्पर्यमिति यदुक्तं तदसङ्गतम्- 'विषं भक्षय मा चास्य गृहे भुङ्क्थाः ' इत्यत्र अनुपात्तार्थेऽपि निषेधे तात्पर्यस्य सर्वसम्मतत्वादिति चेत् ? अत्रोच्यते, तत्र चकार एकवाक्यतासूचनार्थः । आख्यातघटितवाक्यद्वयस्याङ्गाङ्गिभावेनैकवाक्यता च न दृष्टा, तथापि विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेन सुहृदश्च विषभक्षणकथने तात्पर्यस्य निर्धारयितुमशक्यत्वेन तद्वाक्यस्योतरवाक्याङ्गता कल्पनीया, तथा च 'विषभक्षणादपि दुष्टमेतद्गृहे भक्षणम्' इति तात्पर्यावधारणात् सर्वथैतद्गृहे न भोक्तव्यमित्युत्तरवाक्योपात्तशब्दार्थ एव तात्पर्यमिति न व्यभिचारः । यच्च 'सोऽयमिषोरिव दीर्घदीर्घतरोऽभिधाब्यापारः' इत्युक्तं तदपि न समीचीनम्, तथाहि शब्दश्रुतेरनन्तरं यावानर्थोऽवगम्यते तावति शब्दस्याभिधैव व्यापार इति स्वीकारे 'ब्राह्मण! पुत्रस्ते जातः, ब्राह्मण! कन्या ते गर्भिणी' इत्यादौ हर्ष-शोकादीनामपि वाच्यत्वं स्यात्, न च तेषां वाच्यत्वं कैरपि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy