________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १९।
२०३
अथ कैश्चिन्मीमांसकैकदेशिभिरित्यमुच्यते-'नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते' इति । तेषामयमाशयः-शब्दश्रवणानन्तरं यावानर्थः प्रतीयते स सर्वोऽपि शब्दादेवेति सर्वत्र शब्द एव निमित्तम् , यतो नैमित्तिकस्य कार्यस्यानुरोधेननिमित्तानि-कारणानि कल्प्यन्ते, कार्य दृष्ट्वा हि कारणे तदनुकूला शक्तिरवधार्यत इति शब्द एव तत्र कारणमिति नान्या वृत्तिरङ्गीकार्येति । तत्रेदं पृच्छयते-तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा ? शब्दस्यार्थप्रकाशकत्वान्न कारकत्वम् , न द्वितीयः-स्वयमज्ञातस्य ज्ञापकत्वायोगात् , ज्ञातत्वं च संकेतेनैव, संकेतश्व सामन्यारूपेणान्वितमात्रे, एवं च निमित्तस्य यावन्नियतनिमित्तत्वं न निश्चितं तावन्नैमित्तकस्य प्रतीतिरेव कथम् ? । अस्तु विशेष एव संकेतग्रह इति चेत् ?, गवाद्यन्वितानयनादेविशेषस्योपस्थापकान्तराभावेन शब्दादेवोपस्थितिर्वाच्या, तथा च तत्र संकेतग्रहे शब्दात् तदुपस्थितिः, शब्दाच्च तदुपस्थितौ संकेतग्रह इत्यन्यन्योन्याश्रयान्नैमित्तिकानुसारेण निमित्तानि कल्प्यन्त इत्यविचारितमेवाभिधानमिति ।
अयमेतन्निष्कर्षः-व्यङ्गयोपस्थितौ शब्दस्य ज्ञापकत्वरूपे निमित्तत्वे वयमपि कृतसम्मतिकाः, परं व्यञ्जनाया अस्वीकारे तन्नोपपद्यते, शब्दस्यानिमित्तत्वस्य व्यापारसापेक्षत्वात् ; एवं च यथा वाच्यार्थलक्ष्यार्थस्थले अभिधा-लक्षणे व्यापाररूपे, तथेहापि केनापि व्यापारेण भाव्यम् , अन्यथा शब्दस्य निमित्तत्वानिश्चयेन नैमित्तिको व्यङ्गयार्थ इति भवन्मतं न सिद्ध्यति । अथैतादृशव्यापारमन्तराऽपि शब्दस्य निमित्तत्वमाश्रीयते तदाऽभिधा-लक्षणयोरपि तिरस्कारः सुकर इति निमित्तानि नैमित्तिकानुसारं कल्प्यन्ते' इति यदुक्तं तन्न युक्तमिति ।
अथ भट्टपादोपजीविनो भट्टलोल्लटप्रभृतय, इत्थमभिदधति-'सोऽयमिषोरिव दीर्घदी? [भभिधायाः ] व्यापारः' इति “यत्परः शब्दः स शब्दार्थ इति प्रतिषेध एवात्र वाच्यः" इति । तेषामयमाशयः-यथा बलवता प्रेरित एक एवेषुरेकेनैव प्रयत्नेन रिपोर्मभेदं मर्मच्छेदं प्राणहरणं च विधत्ते, तथा सुकविना प्रयुक्त एक एव शब्द एकेनैवाभिधाख्यव्यापारेण पदार्थोपस्थितिमन्वयबोधं व्यङ्गयप्रतीति च विधत्ते, अतो व्यङ्गयत्वाभिमतस्यार्थस्य वाच्यत्वमेव; न चैकार्थप्रतीतौ शब्दस्य विराम इति वाच्यम् , विवक्षितार्थप्रतीत्युत्तरमेव विरामाङ्गीकारात् ; किञ्च 'यदर्थे यस्य शब्दस्य तात्पर्य स शब्दार्थः' इति प्रकृतेनिषेधस्य तात्पर्यविषयत्वेन स शब्दार्थ एवेति । तदिदं 'यत्परः शब्दः स शब्दार्थः' इति तात्पर्यवाचोयुक्तेस्ताल्पयमबुबैव तेषामभिधानम् । तथाहि "भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यते"
For Private And Personal Use Only