________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
सालङ्कारचूडामणौ काव्यानुशासने wwwwwwwwwwwwrnmmmmmm प्रयोज्यवृद्धस्य ज्ञानमनुमिमीते व्युत्पित्सु लः, ततः कारणं विना कार्यानुपपयाऽखण्डवाक्यस्यान्वयव्यतिरेकाभ्यां तज्ज्ञानेन कार्यत्व-कारणत्वरूपां शक्तिमवधारयति, अथ ज्ञेयसम्बन्धं विना वाक्यस्य सा शक्तिरनुपपन्नेत्यर्थापत्याऽखण्डवाक्यार्थेनाखण्डवाक्यस्य वाच्यवाचकभावरूपं सम्बन्धमवधारयति; अनन्तरं, तेनैव प्रयोजकेन 'देवदत्त ! अश्वमानय, चैत्र गां! नय' इत्यादिवाक्येषु कस्यचिदन्यस्य पदस्थावापे कस्यचिदुद्धारे च सति यस्य वाक्यभागस्यान्वयव्यतिरेकाभ्यां यस्य वाक्यार्थभागस्यान्वयव्यतिरेकावुपलभते तस्य तत्र शक्तिमवधारयति, तच्च शक्त्यवधारणमन्वित एव पदार्थे प्रथममन्वय एव वाक्यस्य शक्तिग्रहात्, व्यवहारेणान्वितज्ञानस्यैवोपस्थापनाच्च, न च वाक्यं विना कचिदाद्यव्युत्पत्तिः, व्यवहारेणैवाद्यव्युत्पत्तेः, व्यवहारस्य प्रवृत्ति-निवृत्तिरूपस्य पदमात्रेण कर्तुमशक्यत्वात् , अतो वाक्यस्थितानामेव परस्परसाकाङ्क्षाणां पदानामन्वितेष्वेव पदार्थेषु सङ्केतग्रहादन्विता एव पदशक्याः, न त्वभिहितानां पदार्थानामन्वयोऽशक्य एव योग्यतादिवशात् प्रतीयत इति युक्तम् । तदेतत्सर्वमवधार्योक्तं विवेके-"प्रयोगयोग्यं वाक्यमेव, तत्र च संकेतो गृह्यत इत्यपरपदार्थान्वित एव पदार्थः संकेतभूः इति" । ननु गामानयेत्यादिवाक्ये यदानयनपदं तदेवाश्वमानयेति वाक्येऽपीति प्रत्यभिज्ञाबलेनोभयत्रैकमेवानयनपदमिति निश्चीयते, एवं चानयनपदस्य गवान्वितत्वमश्वान्वितत्वं वा नार्थः, किन्तूभयसाधारण्याय पदार्थान्तरान्वितत्वेन रूपेण सामान्येन पदार्थान्तरान्विताऽऽनयनमेवार्थ इत्येव वाच्यम् , अयमाशयः-~-यथा पदार्थत्वेन रूपेण पदार्थपदवाच्योऽपि घटो घटत्वेन रूपेण तदवाच्यस्तथाऽऽनयनत्वेन रूपेणानयनपदवाच्यमप्यानयनं गवानयनत्वेनावाच्यमेवेति, तथा च गामानयेत्यादौ गवान्वयरूपविशेषार्थबोधाय तात्पर्याख्या वृत्ति. स्वीकार्येति चेत् ? न-पदार्थत्वेन सामान्येन विशेषाणामन्वये शक्तिग्रहात् , नहि निर्विशेषं सामान्यम्, व्यतिषकानां [परस्परमन्वितानां] पदार्थानां तथाभूतत्वात् [विशेषरूपत्वात् ] इति । अत्रापि मते-सामान्यविशेषरूप एव [सामान्येनैव रूपेण विशेषः ] शक्य इत्यतिविशेषभूतो व्यङ्ग्यार्थों वाक्यार्थान्तगतोऽशक्य एवेति, तथा च यत्र संकेतितत्वादवाच्य एव पदार्थः प्रतिपद्यते तत्र दूरेऽर्थान्तरभूतस्योक्तस्थलीयनिषेधस्य वाच्यताचर्चा । अयमत्र सारः-अभिहितान्वयवादेऽनन्वित एवार्थः पदशक्यः, अन्विताभिधानवादे पदार्थान्तरमात्रेणान्वित इत्यन्वितविशेषस्त्ववाच्य एवेत्युभयनयेऽपदार्थ एव वाक्यार्थः, इति वाक्यार्थान्तरभूतो व्यङ्ग्यार्थः सुतरामवाच्य इति ।
For Private And Personal Use Only