SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १९ । .......wwwwser. म्बन्धश्च, "विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिविशेषणे" इत्युक्तदिशा पदाप्रतिपाद्योऽपि वाक्यार्थेऽवभासते । एवं चास्मिन् मते यदा विशेष एवापदार्थस्तदा व्यङ्गयस्य तृतीयकोटौ स्थितस्याभिधेयतायां का सम्भावना । अग्रमाशयः-पदेभ्यः प्रथमं पदार्थस्मृतिः, अथ पदार्थविशेषाणामन्वयविशेषरूपस्य वाक्यार्थस्य प्रत्ययः, ततो व्यङ्ग्यार्थप्रतीतिरिति तृतीयकक्षायां कुतोऽभिधायाः प्रसरणम् , द्वितीय कक्षायामेवा [ तत्र मते] भिधाया अनपेक्षणात् , यतोऽभिहितान्वयवादेऽशक्य एव पदार्थानां परस्परान्वय आकाङ्क्षाऽवशेन प्रतीयते, शब्द-बुद्धि-कर्मणां विरम्य व्यापाराभाव इति च सर्ववादिसिद्धम् । येऽप्यन्विताभिधानवादिनः- 'अनन्वितार्थ पदमप्रयोज्यम्' [ ] इत्याहुः, तेषामयं सिद्धान्तः "शब्द-वृद्धा-ऽभिधेयांश्च प्रत्यक्षेणात्र पश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥ अन्यथानुपपत्त्या तु बोधेच्छक्ति द्वयात्मिकाम् । अर्थापत्त्यावबोधेत सम्बन्धं त्रिप्रमाणकम् ॥ [ ] इति ॥ अत्र कारिकाद्वये प्रतिवाक्यं बाल इत्यध्याहार, तथा च बालः, शब्दःश्रूयमाणो देवदत्त! गामानयेत्यादिः, वृद्धौ-प्रयोजक-वृद्ध-प्रयोज्य-वृद्धौ, अभिधेयः- ऽर्थो गवानयनादिरूपः,' एतान् प्रत्यक्षेण-प्रत्यक्षहेतुनाश्रोत्रादीन्द्रियेण, अत्र-व्युत्पत्तिकाले, पश्यति-साक्षात्करोति, शब्दं स्तोत्रेण वृद्धाभिधेयार्थं च चक्षुषेति बोध्यम् , श्रोतुः-प्रयोज्यवृद्धस्य, प्रतिपनत्वं-वाक्यार्थाभिज्ञत्वम् , अनुमानेन-अनुमितिकरणभूतया श्रोतुश्चेष्टया-गवानयनादिचेष्टारूपेण हेतुना, पश्यतीति सम्बन्धः, तस्य च जानाति, अनुमिनोतीति वाऽर्थः । अन्यथाऽनुपपत्त्या-अर्थापत्त्या अन्यथानुपपत्तिरूपार्थापत्तिप्रमाणेन, द्वयात्मिकां-वाच्यत्वं वाचकत्वं चेति द्विरूपां, शक्ति-संकेतापरनामिका, वाक्य-वाक्यार्थयोः सम्बन्धं बोधेत्-जानीयात् , तदनन्तरं त्रिप्रमाणकम्-उक्तरीत्या प्रत्यक्षा-ऽनुमाना-ऽर्थापत्तिरूपप्रमाणत्रयाधिगतं संकेतम् , अवबोधेत-आवापोद्वापाभ्यां गोशब्दस्य गौरवार्थः, अविभक्तेः कर्मत्वम् , इति रीत्या विशेषतः पदपदार्थनिष्ठतयाऽवधारयेदिति कारिकाद्वयार्थः । अयमाशयः-'देवदत्त गामानय' इत्यादि प्रयोजकवृद्धवाक्यं श्रुत्वा तदनन्तरं प्रयोज्यवृद्धेन सानादिमन्तमर्थमानीयमानमवलोक्य 'अयमेतद्विषयैतक्रियागोचरार्थज्ञानवान् , तद्विषयकप्रवृत्तिमत्त्वात् , मद्वत्, इति For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy