SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ सालङ्कारचूडामणौ काव्यानुशासने ध्वन्यते द्योत्यत इति ध्वनिरिति पूर्वाचार्यैः संशितः । अयं च वस्त्वलङ्काररसादिभेदात् त्रेधा। तथाहि-आद्यस्तावत् प्रभेदो मुख्यादि अङ्गनासु-प्रशस्तस्त्रीषु, प्रसिद्धेभ्योऽवयवेभ्यो-मुखनयनादिभ्योऽतिरिक्तं-भिन्नं, लावण्यं-"मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमितीरितम् ॥” इति शिङ्गभूपेन लक्षितं, कान्तिपूरमिव महाकवीनां वाणीषुकवितात्मकवाक्षु, प्रसिद्धेभ्योऽवयवेभ्यः-शब्दार्थतदुभयालकारादिभ्योऽतिरिक्त यत् 'त्रिशाखं' प्रतीयमानं वस्तु विभाति तद् अन्यदेवास्ति, न तु वाच्यलक्ष्यार्थरूपं विद्यते । यथा प्रशस्तसौन्दर्यायाः स्त्रियः सर्वावयवप्रातिस्विकसौन्दर्यव्यति, रिक्तं सहृदयलोचनामृतं लावण्यं प्रतीतिबलादभ्युपेयते तथैव महाकविवाणीष्वपि तादृशं वाच्यादिव्यतिरिक्तं किमपि तत्त्वान्तरं 'व्यङ्गय' शब्दाभिलप्यमिति भावः । स चेति-प्रतीयमानोऽर्थश्चेत्यर्थः ध्वन्यते-शब्दाप्रतिपाद्यतया केवलं व्यञ्जनया बोध्यते इति ध्वनिरिति पूर्वाचायै निकारादिभिः, संशितः ध्वनिरिति संज्ञया संकेतितः । तस्य त्रिशाखत्वमित्याह-वस्त्वलङ्काररसादिभेदादिति । अयमाशयः-अर्थों हि लौकिकोऽलौकिकश्चेति द्विप्रकारकः, तत्राद्यः शब्देनाभिधातुं शक्यः, स च द्विविधः-विचित्रोऽविचित्रश्च, तत्राविचित्रः स्वभावसिद्धो वस्तुमात्र, विचित्रः प्रतिपादनवैचित्र्यानुसार्यलङ्कारादिः, एष च द्विविधोऽप्यों वाच्यतासहः, स्वशब्देन स्वप्रतिपादकशब्दान्तरेण वाऽभिधानेऽपि चमत्कारकारित्वादस्य तत्त्वम् ननु वस्त्वलंकारयोरपि स्वशब्देन [वस्त्वलङ्कारपदाभ्यां] प्रतिपादनेन चमत्कार इति कथं वाच्यतासहत्वमिति चेत् ? न-वाक्यार्थबोधविषयत्वे चमत्कारित्वस्यैव वाच्यतासहत्वात् , तश्चैतयोरेवेति तात्पर्यात् । ननु विचित्रस्यालङ्काररूपस्यार्थस्य व्यङ्ग्यत्वे मुख्यतया तस्यालङ्कार्यत्वेन कथमलङ्कारत्वव्यपदेशोऽन्यानलङ्करणादिति चेत् ? सत्यम्-ब्राह्मणश्रमणन्यायेन तस्यालङ्कारत्वव्यपदेशात् । अयमाशयः-श्रमणःसंन्यासी, बौद्धसंन्यासी वा, यथा तस्याशास्त्रीयविधिना त्यक्तशिखासूत्रस्यापित्यक्तब्राह्मणोचितनित्यादिकर्मणश्च तदानीं ब्राह्मणत्वाभावेऽपि पूर्वकालिकब्राह्मणत्वमादाय ब्राह्मणत्वन्यवहारस्तथाऽलङ्कार्यस्यापि व्यङ्ग्यतादशायामलङ्कारत्वाभावेऽपि वाच्यतादशायां विद्यमानमलङ्कारत्वमादायालङ्कारत्व-व्यपदेश इति । अनयोश्च न सर्वत्र वाच्यत्वं व्यङ्ग्यत्वस्यापि सत्त्वात् , तथापि तयोर्विध्यादिरूपत्वेन वचन वाच्यत्वं दृष्टमिति तदभिप्रायेण लौकिकत्वं वाच्यतासहत्वं वेति प्रागपि प्रतिपादि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy