________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १९ ।
भ्योऽत्यन्तं भिन्नः । स हि वाच्यविधिरूपे प्रतिषेधरूपो यथा
भम धम्मिय! वीसस्थो सो सुणओ अज मारिओ तेण । गोलाणइकच्छकुडङ्गवासिणा दरियसीहेण ॥ १ ॥
[गा० स० २.७५]
तम् । अवशिष्टोऽलौकिको रसादिलक्षणोऽर्थः, स स्वप्नेऽपि वाच्यत्वं न स्प्रष्टुं क्षमते, रसादिपदेन भाव-रसाभास-भावाभासादिः सर्वोऽपि गृह्यते, स हि रसादिशब्देन शृङ्गारादि शब्देन वाऽभिधीयते, न चाभिधीयते, तादृशशब्दप्रयोगेऽपि विभावाद्यप्रयोगे रसादेरप्रतिपत्तेः । “नयननलिनीलीलाकृष्टं पिबन्ति रसं प्रियाः।" इत्यादी रसशब्देन, “शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम्" इत्यादौ शृङ्गाऽरादिशब्देन वा प्रतिपादनेऽपि विभावानुभावाद्यभावेन चमत्काराभावात् , विभावादिप्रयोगे च रसादि शब्दाप्रयोगेऽपि रसप्रतीतेष्टत्वाचान्वय-व्यतिरेकाभ्यां तस्य वाच्यत्वाभावावधारणात् , मुख्यार्थबाधायभावाच्च न लक्षणीय इति तादृशोऽर्थः [ रसादिरूपो ] व्यङ्गय एवेत्यत एव तस्यालौकिकत्वम् । मुख्यादिभ्यो भेदं विस्तरेण प्रदर्शयितुमुपक्रमते-तथाहीत्यादिना । आद्यः वस्तुरूपः, प्रभेदः त्रिष्वेकतमो भेदः, मुख्यादिभ्यः वाच्य-गौणलक्ष्येभ्योऽत्यन्तं भिन्न इति, तत्र येऽर्था वाच्यत्वादिना प्रतीयन्ते तेभ्योऽतिशयं भिन्न इति भावः । तादृशं भेदमेव दर्शयति-स हि वाच्यविधिरूपे इति-हि यतः, स व्यङ्गयोऽर्थः, वाच्ये विधिरूपे सति प्रतिषेधरूपो भवत्यतस्तस्माद् भिन्न इत्यर्थः । तदुदाहरति-यथा-भम धम्मियेति'भ्रम धार्मिक ! विश्वस्तः स शुनकोऽद्य मारितस्तेन । गोदानदी कच्छकुञ्जवासिना दृप्तसिंहेन ॥” इति संस्कृतम् ।
काचित् पुंश्चली नादेयपानीयनयनादिव्याजेन गृहानिर्गत्य प्रच्छाकामुकेन सह गोदावरी कूललतागहने सदा रममाणा पुष्पोश्चयलताविलोपादिना विघ्नकारिणं धार्मिक प्रति विदग्धाऽपि मुग्धेव वक्ति-हे धार्मिक ! विश्वस्त:-स्वैरं यथा स्यात् तथा, न तु पूर्ववत् सत्रासम्, भ्रम-सञ्चर, यतः स-यस्तवास्मद्गृहेसविधे सञ्चरतो भयमकरोत् स शुनक:-कृपापात्रं दीनो निर्विचारो वा श्वा, तेनप्रसिद्धेन, [ केवलं त्वयैवाज्ञातेन ] गोदानदी-गोदावरीसरित् , तस्याः कच्छकुले कूलस्थलतामण्डपे, वासिना-सन्ततवासशीलेन,-दृसः-गर्वितः, [ग्राममपि प्रविश्य हठात् धातुकः, येन कृपापात्रमसौ श्वाऽपि न त्यक्तः] स चासौ सिंह
For Private And Personal Use Only