________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १ सू० १९ ।
१९७
व्यङ्गयं लक्षयतिमुख्याद्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः ॥ १९ ॥ मुख्य गौण लक्ष्यार्थव्यतिरिक्तः प्रतीतिविषयो व्यङ्गयोऽर्थः । स च
र्यदुक्तं तस्य खण्डनेऽस्माकमाग्रह इति भावः । तथा च तै रूढिमपि प्रयोजनं स्वीकृत्य लक्षणा समाश्रिता - "रूढेः प्रयोजनाद् वापि व्यवहारोऽवलोक्यत " इति मम्मटेन च - " मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् ।
'भन्योऽर्थो लक्ष्यते यत् सा लक्षणाssरोपिता क्रिया ॥ इति, [ का० प्र०, द्वि० उ०९ ]
3
ww
रूढेरनादितात्पर्यात् प्रयोजनादर्थविशेषप्रतिपादनरूपात् व्यवहारः - अभ्यार्थकस्य शब्दस्यान्यत्र प्रयोगोऽवलोक्यत इति भट्टकारिकार्थः । मुख्यार्थस्य वाच्यार्थस्य, बाधे-घोषाद्यधिकरणत्वासम्भवरूपे बाधे सति, वक्तृतात्पर्याविषयत्वे सतीति वा, तस्य मुख्यार्थस्य, योगे-सम्बन्धे [ अमुख्येन लक्षणीयेन तटादिनाऽर्थेन इस सामीप्यादिसाक्षात्सम्बन्धे सतीत्यर्थे ] सति, रूढितः प्रसिद्धेः प्रयोगप्रवाहात्, अथ - अथवा, प्रयोजनात् - शैत्य-पावनत्वादिप्रतीतिरूपात् [ शब्देन ] भन्योऽर्थो यद् लक्ष्यते सा लक्षणा' इत्यन्वयः । ' आरोपिता क्रिया' इति च तत्स्वरूपं पदान्तरेणाहेति काव्यप्रकाशीयकारिकार्थः ॥ १८ ॥
"
मुख्य- गौण लक्ष्यानर्थान् व्याख्याय क्रमप्राप्तं व्यङ्गयमर्थं लिलक्षयिषुराह - व्यङ्गयं लक्षयतीति" - मुख्याद्यतिरिक्त ०" इति सूत्रेणेति शेषः । मुख्यादीत्यत्रादिपदेन गौण लक्ष्ययोः संग्रह इत्याह- मुख्य- गौण लक्ष्यार्थव्यतिरिक्त इति-अयं भावः- यद् यतो भिन्नत्वेन प्रतीयते तत् ततोऽन्यदिति व्यवहर्त्तव्यम्, यथा नीलं पीताद् भिन्नं प्रतिभासत इति ततोऽन्यत्वेन प्रसिद्धम्, वाच्याद्यर्थव्यतिरिक्तः-मुख्य-गौण-लक्ष्यविलक्षणो यतो व्यङ्गयोऽर्थः प्रतिभासतेऽतो विभिन्न एभ्योऽयमिति स्वीकर्तव्यम् । नन्वस्य पृथगवभासने किं विनिगमकमित्याहप्रतीतिविषय इति - स्वसंवेदनगम्य इत्यर्थः, न हि स्वसंवेदनसिद्ध आत्मनीवतत्रापि वस्तुनि विवाद इति भावः । तथा चाहानन्दवर्धनाचार्यो ध्वन्यालोके"प्रतीयमानं पुनरन्यदेव, वस्त्वस्ति वाणीषु महाकवीनाम् । यत् तत् प्रसिद्धावयवातिरिक्तं, विभाति लावण्यमिवाङ्गनासु ॥"
wwwwww
[उ० १, श्लो० ४ ]
For Private And Personal Use Only