________________
Shri Mahavir Jain Aradhana Kendra
१९६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
लक्ष्यस्यार्थस्य हेतुत्वेनास्माभिरुक्ता ॥ १८ ॥
wwwwww
शक्यतावच्छेदकं चान्यदिति तदर्थः । एवं च योगार्थतावच्छेदक - शक्यतावच्छेदकयोरत्यन्तभेदात् । योगार्थ - शक्यार्थयोरपि भेदः स्वीकर्त्तव्य एवेति कुशलपदस्य कुशग्राहिरूपे सत्यपि योगार्थे 'कृती कुशल इत्यपि' इत्याद्यमरादिकोशकारवचनात् तस्य 'चतुर' एव मुख्योऽर्थ इति तद्वाधाभावालक्षणा न स्वीकरणीयेति । ननु कुशल- गवादिशब्दानां व्याकरणात् कुशग्रहणगमन - कर्त्राद्यर्थप्रतीतौ कोषाद् दक्ष - सास्त्रादिमत्त्वाद्यर्थग्रहणे किं मानम् ? उभयोरपि शक्तिग्राहकत्व - साम्येन बलवत्वे बीजाभावादिति चेत् ? अत्र ब्रूमः, प्रकृति-प्रत्ययार्थज्ञानसापेक्षतया योगार्थप्रतीतौ गौरवं विलम्बश्च तदुभयार्थज्ञाननिरपेक्षरूढ्यर्थप्रतीतौ लाघवमविलम्बश्रेति रूढ्यर्थसम्भवे योगार्थो विप्रकृष्यते, तदुक्तं भट्टेन " लब्धात्मिका सती रूढिर्भवेद् योगापहारिणी" इति, यत्र तु न रूढ्यर्थसम्भवस्तत्र योगार्थ एवाद्रियत इति सर्व सुस्थम् । एवं द्विरेफशब्दस्य रेफद्वयघटिता भ्रमरादिसंज्ञा वाच्या चेत् तदुपस्थाप्ये षट्चरणचारिणि मधुलिड्रूपेऽर्थे लक्षणा स्वीकर्त्तव्या भवति, तथैव द्विपदस्य कारूपेऽर्थे, परं स्थलद्वयेऽपि रूढ्या भ्रमरकाकयोरेव प्राधान्येनोपस्थित्यङ्गीकारे का लक्षणाया आवश्यकतेति । अत एव लक्ष्यार्थपरिभाषावसरे रूढिः प्रयोजनवत् कारणत्वेन नोक्ता, सर्वत्रापि रूढ्या समुपस्थापितस्यार्थस्य प्राधान्यस्वीकारात् । साक्षात्संकेतविषयत्वादिति हेतूपन्यासेन तादृशरूढ्यर्थस्य वाच्यतामभिधाय लक्षणाऽसम्भवरूपः स्वीयसिद्धान्तः स्फुटमुक्तः । अत्रेदं विचारणीयम् - कुशलपदे कुशग्राहिरूपार्थापेक्षया चतुररूपार्थस्य मुख्यत्वेन लक्षणाsसम्भवेऽपि द्विरेफ-द्विकादिपदानां न तथा प्रत्ययो भवति, द्विरेफपदं बहुव्रीहिबलाद् रेफद्दयघटितं भ्रमरशब्दमेव वक्तुं क्षमम्, एवं द्विकपदमपि द्विक कारवत्वेन रूपेण काकशब्द, न तु तयोः शब्दयोरभिधेयं मधुकरादिकम् एवं च शब्दार्थयोरभेदेन सम्बन्धेनैव तयोरर्थयोरुपस्थितिरित्यास्थेयम्; तथा चाभेदसम्बन्धमूलिका लक्षणाऽत्रावश्यकीति मत्वैव प्राचीनैः काव्यप्रकाशादिकृद्भिरनादितात्पर्यमूला निरूढलक्षणा स्वीकृता । परंतु क्रमशस्तेषामर्थानां मुख्यतया प्रतिभासनान्न बाधप्रतिसन्धानपूर्विका 'गङ्गायां घोष:' इत्यादि स्थलवत् तत्रार्थप्रतिपत्तिरिति मत्वैवोक्तम्- नास्माभिरुक्तेति । न तु भट्ट मुकुल - मम्मटादिभि
"
wwwwww
wwwwwww.
For Private And Personal Use Only