________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १ सू० १८ ।
"
१९५
चर्यते स गौणोऽर्थो, यत्र तु न तथा स लक्ष्य इति विवेकः । कुशलद्विरेफ-द्विकादयस्तु साक्षात्संकेतविषयत्वान्मुख्या एवेति न रूढि -
यत्र च दृष्टः श्रुतो वाऽर्थोऽनुपपन्नोऽर्थान्तरं कल्पयति सा दृष्टार्थापत्तिरर्थापत्तिमात्रं वा, यथा तत्रैव द्वारमित्यर्थोऽनुपपन्नः पिधेहीति क्रियामर्थरूपेण कल्पयति, इयमेव चार्थाध्याहार इति कथ्यते । एवं च प्रकृते पीनत्वरूपोऽर्थोऽनुपपन्नं रात्रिभोजनरूपमर्थं कल्पयतीति नात्र लक्षणेति ।
इत्थं लक्ष्यार्थं निरूप्य गौणार्थेन सह तस्य भेदमवगमयितुमाह- इह च यत्र वस्त्वन्तर इति - वस्त्वन्तरे - वाहीकादौ, वस्त्वन्तरं - गोत्वादि, उपचर्यते - समारोप्यते - गुणसाधारण्य महिम्न्ना समाश्रीयते, अयमुपचारो व्यवहारसमर्थकः, अयमेव चार्थो गौणः । यत्र तु सादृश्यप्रयोजकगुणादिसाधारण्यमनपेक्ष्य जन्यजनक - भावादिकं सम्बन्धमनुसन्धाय स्ववाच्यार्थातिरिक्तेऽर्थान्तरे वृत्तिः स लक्ष्य इति, यथा - 'आयुर्धृतमिति, अत्रायुः कारणमपि घृतमायुस्तादाम्येनोक्तम्, अन्यवैलक्षण्येनाव्यभिचारेण चायुःसाधनत्वप्रतिपत्तिः प्रयोजनमिति गौणी वृत्तिः । गङ्गायां घोष इत्यादिषु च तटाद्यर्थान्तरे वृत्तिरिति लक्षणावृत्तिरिति । कुशलद्विरेफादिशब्देषु कुशं लाति गृह्णातीत्यर्थेन कुशग्रहणकारिणि, रेफद्वयभाजि भ्रमरादिपदे च मुख्यतया वर्त्तमानेषु विवेचकत्वरूपं साधर्म्यं सम्बन्धं रूटिं चाश्रित्य चतुर - भ्रमराद्यर्थे लक्षणेति रूढिरपि लक्षणा निमित्तमिति वदतां मतं खण्डयति - कुशलद्विरेफ-द्विकादयस्तु साक्षात्सङ्केतविषयत्वान्मुख्या एवेति न रूढिरित्यादि । अयमाशय::- कुशमाहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि चतुररूपार्थस्यैव तन्त्र मुख्यतया प्रतीतत्वेन मुख्यार्थबाधाभावान्न लक्षणेति । ननु व्युत्पत्या लभ्यमर्थमुपेक्ष्य प्रवृत्तिनिमित्तभूत एव मुख्योऽर्थ इत्यत्र किं मानमिति चेत् ? न - 'गौः शेते' इत्यत्र लक्षणामन्तरेण निर्वाहस्य सकलसम्मतत्वमेव मानमिति गृहाण, गमेर्गत्यर्थकात् कर्त्रर्थे निष्पन्नो गोशब्द इह शयानां गामाह, व्युत्पत्तिलभ्यार्थापेक्षया प्रवृत्तिनिमित्तभूतार्थस्य मुख्यत्वं विना तथा प्रतीतिर्न सम्भाविनी । उक्तं च महाभाष्यकृताऽपि “अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यश्च प्रवृत्तिनिमित्तम्" इति व्युत्पत्तेः- योगार्थप्रतीतेः निमित्तं कारणं योगार्थतावच्छेदकम्, अन्यत् भिन्नम् प्रवृत्तेः - शक्तेः सङ्केतस्य, निमित्तं
For Private And Personal Use Only