________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
anuarunnarrannawwarnary
१९४
सालङ्कारचूडामणौ काव्यानुशासने इति न्यायात्, न चात्र प्रयोजनमस्ति । अविनाभावादाक्षेपे च यदि लक्ष्यत्वमिष्यते तदा क्रियतामित्यत्र कर्तुः, कुर्वित्यत्र कर्मणः, प्रविश पिण्डीमित्यादौ 'गृहं भक्षय' इत्यादेश्च लक्ष्यत्वं स्यात् । पीनो देवदत्तो दिवा न भुङ्ग इत्यादौ न पीनत्वेन रात्रिभोजनं लक्ष्यते, अपि त्वर्थापत्त्या आक्षिप्यत इति । इह च यत्र वस्त्वन्तरे वस्त्वन्तरमुपयतो विशेषणे-जातिरूपे उपाधौ [धर्मे ], क्षीणशक्तिः-विरतव्यापारा, "नागृहीतविशेषणा बुद्धिर्विशेष्ये उपजायते" इति न्यायेन विशेषणं प्रत्याय्य विरामादित्यर्थः; एवं चाभिधया व्यक्तबोधोऽसम्भवीत्यनुमानाश्रितमिति भावः । नन्वेवं लक्षणैव कुतो नाश्रितेति चेत् ? अत्राह-न चात्र प्रयोजनमस्तीति-गङ्गायां घोष इत्यादौ पावनत्वादिप्रतीतिवदन किमपि प्रयोजनं नास्तीति न लक्षणासम्भव इति भावः । विपक्षे बाधकमाह-अविनाभावादाक्षेपे चेत्यादि-एवमाक्षेपस्थले लक्षणास्वीकारे चेति भावः । "क्रियताम् , कुरु प्रविश पिण्डीम् इत्येतानि चत्वारि पदात्मकानि वाक्यानि, तत्र क्रियायाः कर्तृ-कर्मादिसाधनाविनाभावात् कर्तृ-कर्मादीनामाक्षेपो भवति, पिण्डीमित्यत्र गुडस्य पिण्याकस्य प्रास्यस्य वा कर्मणः क्रियां विनाऽसम्भवाञ्च भक्षयेति क्रियाया आक्षेपो भवति; तत्रापि भवद्रीत्या लक्षणैव स्यादिति भावः ।
केचित् तु-पीनो देवदत्तो दिवा न भुते इति वाक्ये देवदत्तो रात्रिभोजनवानिति लक्ष्यते, भोजनाभावसमानाधिकरणपीनत्वयुक्तोत्कर्षस्य प्रतीतेः प्रयोजनस्य सत्त्वात् । अर्थवादे प्राशस्त्यलक्षणावद्वाक्येऽपि लक्षणा साध्वी, पीनत्वेनैव सामानाधिकरण्यात् , रात्रिभोजनं वा लक्ष्यते' इत्याद्याहुः, तन्मतं दूषयति-पीनो देवदत्त इत्यादिना । न पीनत्वेन रात्रिभोजनं लक्ष्यत इति-तर्हि कथं तत्र रात्रिभोजनार्थावगतिरिति चेदत्राह-अपि त्वर्थापत्त्या आक्षिप्यत इतिअर्थादर्थस्यापत्तिरापतनमित्यापत्तिः, शब्दव्यापारमन्तराऽप्यर्थस्य प्रतीतिरिति भावः, इयं च पञ्चमप्रमाणभूता भट्टसम्मता, वेदान्तिभिरपि 'व्यवहारे भट्टनयः' इति सिद्धान्तात् स्वीक्रियत एव; सा चेयं द्विविधा-श्रुतार्थापत्तिदृष्टार्थापत्तिश्च, श्रुत-शब्दः, तत्कल्पिकाऽर्थापत्तिः-श्रुतार्थापत्तिः' इति उद्दयोतकारः, यत्रानुपपद्यमानः शब्दः शब्दान्तरं कल्पयति सा श्रुतार्थापत्तिः, यथा-'द्वारम्' इति शब्दः 'पिधेहि' इति क्रियापदं कल्पयति, अयमेव पदाध्याहारः शब्दाध्याहारो वोच्यते;
For Private And Personal Use Only