________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या ० १ सू० १८ ।
गौरनुवन्ध्य इति तु नोदाहरणीयम् अत्र हि श्रुतिनोदितमनुबन्धनं जातौ न संभवतीति जात्यविनाभावित्वाद् व्यक्तिराक्षिप्यते, न तु शब्देनोच्यते " विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे”
ܕ
)
वैशिष्ट्याच्च चमत्काराधानमिति हृदयम् । श्लोकार्थश्च - कचतः [ राहुत्वेन ज्ञातात् ] केशसमूहात् वदनं मुखं [ चन्द्रत्वेनारोपितं ] त्रस्यति - बिभेति वदनात् [ चन्द्रात् ] कुचमण्डलं [ कमलकुडालत्वेन विज्ञातं ] त्रसति, तथा मध्यात्कटप्रदेशात् [ सिंहकटीसादृश्यात् सिंहत्वेन विज्ञातात्, ] नयनं नेत्रं [ मृगनेत्रसादृश्याद् मृगत्वेन विज्ञातं, ] बिभेति, सिंहाम्मृगस्य भयं स्वाभाविकमेवेति भावः । पुनर्नयनात् [ खञ्जनत्वेन विज्ञानात् खञ्जन सादृश्येन च तत्र तत्त्वस्याप्यारोपात, ] अधरः [ बिम्बसारइयात् तश्येन विज्ञातः, ] समुद्विजति उद्वेगं भजते, खञ्जनस्य बिम्बफल भक्षणप्रवृत्तेरिति भाव इति ।
१९३
अत्र मीमांसकैर्जातिशक्तिवादिभिर्मण्डनमिश्रादिभिर्लक्षणाया उदाहरणं गौरनु
wwwwwww
wwwwwwwww
बन्ध्य इत्युक्तम् । अयं हि तेषामाशय: - "गौरनुबन्ध्योऽजोऽग्नीषोमीयः " [ ] इत्यादिश्रुतौ गोरनुबन्धनं चोदितम्, गोशब्दश्च गोत्ववाची, गोत्वं च सामान्यम्, तस्य चानुबन्धनम् - आलम्भनं बाधितम् श्रुतेश्च प्रभुसम्मितशब्दत्वेन तदुक्ताननुष्ठाने दोष:, ततश्च तस्यावश्यकर्त्तव्यत्वं कथं निर्वाहितं स्यादिति जात्या व्यक्तिलक्ष्यत इति, तत् खण्डयति - गौरनुबन्ध्य इति तु नोदाहरणीयमिति । कुत इत्याह- अत्र हीत्यादिना जात्यविनाभावित्वादिति - व्यक्तिं विना जातेरभावादित्यर्थः । व्यक्तिराक्षिप्यत इति-जात्या व्यक्तिरनुमीयत इति भावः । जाति
याश्रिता जातित्वादित्यनुमानं सामान्येन; न चानुमिताया व्यक्तेरशाब्दत्वात् कथं शाब्देन संख्याकर्मत्वादिना अन्वयः, "शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते" इति न्यायादिति वाच्यम्, अनुमानस्य शब्दसहकारिवोपगमात् तथा चानुमानसहकारेण शब्देन जातिविशिष्टवीरित्यर्थः, न च वृत्या पदजन्यधीविषयत्वं शाब्दबोधे तत्रमिति वाच्यम्, लाघवात् पदजन्यत्वस्यैव तत्त्वौचित्यादिति ।
3
For Private And Personal Use Only
स्वमतं प्रतिपाद्य तन्मतं खण्डयति न तु शब्देनोच्यत इति । तत्र हेतुमाह - "विशेष्यं नाभिधेत्यादि - अभिधा-शक्तिः, विशेष्यं व्यक्तिरूपं धर्मिणं, न गच्छेत् न यायात्, न स्पृशेदित्यर्थः । तत्र हेतुमाह- क्षीणशक्तिरित्यादि
का० १३