SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ सालङ्कारचूडामणौ काव्यानुशासने WW. प्रभायां-"मुख्यार्थबाधश्च शक्यतावच्छेदकरूपेण तात्पर्यविषयान्वयबाधः" इति, तत्रैव च कमलाकरभट्टादिटीकाकारैः-'मुख्यार्थस्यान्यपदार्थासंसर्ग एव बाधः' इत्युक्त्वाऽन्ते 'वक्तृतात्पर्यविषयवाक्यार्थबोधाभावोऽत्र बाधः' इति स्वीकृतम् । यद्यपि 'गङ्गायां घोषः, यष्टीः प्रवेशय' इत्यादावुभयाऽपेक्षादर्शनाद् विनिगमना. विरहः, तथापि 'गङ्गायां घोष' इत्यत्र वक्तृतात्पर्याभावे घोषपदे एव मीने लक्षणा किं न स्यात् ? कुतश्च गङ्गापदेऽपि स्वार्थसम्बन्धिनौकादौ लक्षणा न स्यात् ? तावताप्यन्वयानुपपत्तिशान्तः, अतम्तात्पर्यानुपपत्तिरेव लक्षणाबीजमित्याहुः । उक्त च परमलघुमञ्जूषायां नैयायिकमतानुवादावसरे नागोजीभट्टेन "शक्यसम्बन्धो लक्षणा, अन्वयाद्यनुपपत्तिप्रतिसन्धानं च लक्षणाबीजम् । वस्तुतस्तु तात्पर्यानुपपत्तिप्रतिसन्धानमेव लक्षणाबीजम् , अन्यथा गङ्गायां घोष इत्यत्र घोषे एव मकरादिलक्षणापत्तिः, तावताऽप्यन्वयानुपपत्तिपरिहारात् ; गङ्गायां पापी गच्छतीत्यादौ गङ्गापदस्य नरके लक्षणापत्तेश्च अस्माकं तु भूतपूर्वपापावच्छिमलक्षकत्वे तात्पर्यान दोषः, नक्षत्रं दृष्ट्वा वाच विसृजेदिति विधावन्वयसम्भवेऽपि तात्पर्यानुपपत्त्यैव लक्षणास्वीकारात् । एकानुगमस्वीकारेण निर्वाहेऽनेकानुगमस्वीकारे गौरवाञ्च" इति । केचित् तु-अन्वयानुपपत्तेस्तात्पर्यानुपपत्तेश्च लक्षणाबीजत्वे मुख्यार्थबाधावगममुखेनैव प्रयोजकताऽऽस्थेया, मुख्यार्थबाधश्च समभिव्याहृतपदतात्पर्यविषये मुख्यार्थतावच्छेदकरूपेण मुख्यार्थासंसर्गरूपः, एवं च 'छत्रिणो यान्ति, यष्टीः प्रवेशय, काकेभ्यो दधि रक्ष्यताम्' इत्यादौ छत्र्यादिमुख्यार्थानां सममिव्याहृतः, तत्तक्रियासु कर्तृत्वादिरूपेणान्वयाबाधेऽपि तात्पर्य विषयेषु च्छत्र्यच्छत्रिगमनभोजनार्थप्रवेशन-दध्युपघातकावधिकरक्षणेषु मुख्यार्थतावच्छेदकरूपेण तदन्वयबाधोऽस्त्येवेति नान्वयानुपपत्तेर्लक्षणाबीजत्वे दोष उद्भावयितुं शक्य इत्याहुः । सा चेयं लक्षणा नानाप्रकारमतानुसारं नानाप्रकारा-शक्यतावच्छेदकारोपरूपा, संस्काररूपा, शक्यसम्बन्धरूपा, सम्बन्धज्ञानरूपा, वक्तृतात्पर्यरूपा च; तत्र प्रथमप्रकार एवालङ्कारिकसम्मतः, अत एव "कचतस्वस्यति वदनं, वदनात् कुचमण्डलं असति । मध्याद् विभेति नयनं, नयनादधरः समुद्विजति ॥" [ ] इत्यत्र कचत्वादिना राहुत्वविशिष्टस्य बोधनाद् न त्रासाद्यन्वयानुपपत्तिः; कचत्वविशिष्टे राहुत्वारोपाद् राहुत्वविशिष्टत्वात् कचेभ्यस्त्रासोत्पत्तिः, कचत्व For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy