________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिघविवृतौ अध्या० १, सू० १८ |
एव तद्विषयः शब्दो लक्षको यथा- गङ्गायां घोषः, कुन्ताः प्रविशन्ति, अत्र गङ्गायां घोषाधिकरणत्वस्य कुन्तानां प्रवेशस्य चासम्भवान्मुख्यार्थबाधः, सामीप्यं साहचर्ये च निमित्तम् । गङ्गातट इति, कुन्तवन्त इति च प्रयोगाद् येषां न तथाप्रतिपत्तिस्तेषां पावनत्वरौद्रत्वादीनां धर्माणां तथाप्रतिपादनं प्रयोजनम् ।
प्रमाणेनाभिधया [- मुख्यया वृत्त्या ] प्रतिपाद्यस्य मुख्यार्थस्य प्रवाहरूपस्य घोषाद्यधिकरणत्वाद्यसम्भवरूपे बाधे सति [ वस्तुगत्या तु तात्पर्याविषयत्वे सतीत्यर्थः, विचेषयिष्यते चैतदग्रे ] निमित्ते स्वमते सामीप्यादौ सम्बन्धेऽन्यमते रूoयादौ च प्रयोजने - 'गङ्गातटे घोष:' इति शब्देन प्रतिपादनेऽलभ्यानां शैत्यपावनत्वादीनां प्रतीतिरूपे सति, मुख्यार्थेन - प्रवाहादिना सम्बद्धः, सामीप्यादिनान्वितः, तत्त्वेन प्रवाहत्वेन रूपेण, लक्ष्यमाणः लक्षणाजन्यप्रतीतिविषयी क्रियमाणः प्रतिपाद्यमानो वा तटादिरर्थो लक्ष्य इति सूत्रार्थसंगतिः । तदेतत् अत्र गङ्गायां घोषाधिकरणत्वस्येत्यादिना प्रतिपादयिष्यते । तद्विषयकः लक्ष्यार्थप्रतिपादकः शब्दो लक्षक 'इत्युच्यते' इति शेषः । उदाहरणमाहगङ्गायां घोषः, कुन्ताः प्रविशन्तीति । अनयोः सूत्रार्थं सङ्गमयति-अत्र गङ्गायां घोषाधिकरणत्वस्येत्यादिना -" घोष आभीरपल्ली स्यात्" इत्यमरस्वारस्येन गोपग्रामो गोपानां कुटी वा "कुटि- ग्रामकयोः पल्लिः” इति शाश्वतकोशात् घोषः, तदधिकरणत्वं हि जलमयस्य प्रवाहस्यासंभवम् एवं कुन्ताः प्रविशन्तीत्यत्रा चेतनानामस्त्रविशेषाणां कुन्तानां प्रवेशनक्रियाकर्तृत्वाऽसम्भव इति मुख्योऽर्थ एतयोर्बाधितः । सामीप्यमिति पूर्वत्र, साहचर्यमिति च परत्र निमित्तम् । प्रयोजनं प्रतिपादयति-गङ्गातट इति कुन्तवन्त इति च प्रतिपादनादिति, 'गङ्गातटे घोषः, कुन्तवन्तः प्रविशन्ति' इति प्रतिपादनाद् येषां पावनत्वादीनां पूर्वत्र रौद्रत्वादीनामुत्तरत्र न तथा प्रतिपत्तिर्यथा लक्षणया प्रतिपाद्यते, तेषां धर्माणां तथात्वेन रूपेण प्रतिपादनं प्रयोजनमिति वृत्त्यन्वयः । अत्र 'गङ्गायां घोषाधिकरणत्वस्यासम्भवान्मुख्यार्थबाधः' इत्युक्त्या - ऽन्वयानुपपत्तेर्लक्षणाबीजत्वमिति स्वमतं यद्यपि लभ्यते, तथापि तस्य [ असंभवपदस्य ] तात्पर्याविषयत्वे इत्येवार्थो युक्तः । तथा च मुख्यार्थस्य तात्पर्याविषयत्वरूपे बाधे सतीत्यर्थः, तदुक्तं लक्षणाविवेचनप्रकरणे काव्यप्रकाशटीकायां
wwwww
"
For Private And Personal Use Only
१९१
www.w.........