SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० सालङ्कारचूडामणौ काव्यानुशासने लक्ष्यमर्थ लक्षयतिमुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः ॥१८॥ मुख्योऽर्थो गङ्गादिशब्दानां स्रोतःप्रभृतिस्तेन संबद्धस्तटादिरर्थस्तत्त्वेनाभेदेन लक्ष्यमाणो लक्ष्यः । तत्वेन लक्ष्यमाण इति वचनाद भेदाभेदाभ्यामारोपित इति न वर्तते, शेषं तु गौणलक्षणमनुवर्तत बोध्योऽर्थः । स च प्रकरणादिना ज्ञातापकारिणं प्रति बाधितः सन् विपरीते उपचर्यते, तथा 'उपकृतम्' इत्यस्य 'अपकृतम्', 'सुजनता' इत्यस्य 'दुर्जनता' 'सखे' इति 'शत्रो' इति, 'सुखितम्' इति 'दुःखितम्' इत्यर्थे चोपचरितमिति । उक्त च तत्रैव ग्रन्थे मम्मटेन 'अतो वक्तृमहिम्ना मूर्खे बृहस्पतिशब्देन मूर्खत्वमिव 'अपकारि-दुर्जनत्वादि लक्ष्यत' इति । अपकाराद्यतिशयो व्यङ्गयः, तत्प्रतीतिरेव च प्रयोजनम् ॥ १७ ॥ मुख्य-गौणावौँ लक्षयित्वा क्रमप्राप्त लक्ष्यमर्थ लक्षयितुं प्रवृत्तं सूत्रमवतारयति-लक्ष्यमर्थ लक्षयतीति । 'मुख्यार्थसम्बद्ध' इत्यादिसूत्रस्य पदार्थमाह-मुख्योऽर्थ इत्यादिना । शब्दव्यापाराद् योऽर्थोऽव्यवधानेन गम्यते सोऽभिधाशक्त्युपस्थाप्यो मुख्यः, तस्य शक्त्यन्तरानन्तरितशक्तिद्वारा समुपस्थाप्यत्वमेव मुख्यत्वे बीजम् । तादृशश्वार्थों गङ्गादिशब्दानामने लक्षणाश्रयतया प्रतिपादितानां, स्रोतःप्रभृति प्रवाहादिः गङ्गापदस्य भगीरथखानावच्छिन्नप्रवाहे शक्तिरिति साम्प्रदायिकोक्तेः, तेन सम्बद्धः सामीप्यादिसम्बन्धेन संयुतः, तटादिः लक्ष्यमाणोऽर्थः-पदार्थः, तत्वेनेत्यस्यार्थमाह-अभेदेनेति-प्रवाहत्वेन रूपेणेत्यर्थः, लक्ष्यमाणो लक्षणाजन्यप्रतीतिविषयः सन् , 'लक्ष्यः' इत्यभिधीयते इति शेषः । इदं च सूत्रं पूर्वसूत्रस्थपदान्यपेक्षते, तत्र यावानंशस्ततो नूतनः स उक्तः शेषार्थपूर्तिस्तु तत्सूत्रस्थपदानामनुवृत्त्यैव, तथा च, निमित्तप्रयोजन-प्रकाराणां ततोऽनुवृत्तिरिति प्रकाररूपोपस्थापकस्य तत्त्वेनेति पदस्य सत्वेन पूर्वत्र प्रकारवाचकस्य भेदाभेदेनेति पदस्य नोपस्थितिरित्याह-तत्वेन लक्ष्यमाण इति वचनादिति । तद्वर्जापेक्षितपदानुवृत्तिमनुजानाति-शेषं तु गौणलक्षणमनुवर्तत एवेति-तथा च मुख्यार्थबाधे निमित्ते प्रयोजने चेति पदत्रयमनुवर्तत एवेति भावः । तथा च गङ्गायां घोष इत्यादौ प्रत्यक्षादिना For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy