________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १७ ॥
१८९
विभक्त्या परिमाणार्थबोधने परिच्छेद्यपरिच्छेदक-भावप्रतीतिस्तन्मूलिकैवेति शक्त्यैवान तदर्थबोध इति नोपचारावश्यकतेति प्रतीयते तथापि परिमाणे प्रथमाविधानविरोधिमते सर्वथा तदप्रतीती, सिद्धान्तेऽपि तत्परिच्छिन्नत्वबोधेऽपि तदभिन्नत्वविधया माननिर्वाहायोपचाराश्रयणे चारुतेति तदुदाहरणं युक्तमेव । संयोगसम्बन्धमूलकमुपचारमाह-रक्तद्रव्यसंयोगादिति-रक्तद्रव्यं रञ्जनसाधनं द्रव्यं, तस्य संयोगे सति पटोऽपि रक्त इत्युपचर्यत इति भावः । यद्यपि रक्तं रूपं गुणः, तस्य च समवाय एवेति न संयोगोदाहरणत्वं युक्तं तथापि रक्तत्वं रञ्जनसाधनद्रव्यगतो गुणः, स च द्रव्यान्तरयोगेनैव तत्र स्वाश्रयद्रव्येण सह समवैति, न तु स्वत इति तत्समवाये संयोग एव हेतुरिति संयोगोदाहरणमेवेदमिति निर्विवादम् । तथा च संयोगसम्बन्धमूलके उपचारेऽतिरक्तत्वं सर्वावयवेन तत्त्वं वा प्रतीयते, तदेव प्रयोजनम् । तास्कर्त्यरूपमपि सम्बन्धमाश्रित्य तन्मूलकमुपचारमुदाहरति- तात्क\-अतक्षा तक्षा इति-तात्कम्यं च तत्कर्मकारित्वं, तत् कर्म यस्यासौ तत्कर्मा, तस्य भाव इति व्युत्पत्तेः, तथा च तत्कर्मकारित्वरूपेण सम्बन्धेन तत्वोपचार इहेति, जातिविशेषावच्छिन्ने [वर्धकौ ] रूढं तक्षेति पदमिह तत्कर्मकारिणि तद्विजातीयेऽपि तत्त्वोपचारः, अतक्षा तक्ष्णोऽन्यो गोपालादिः, तक्षा तज्जातीयगृहनिर्माणादिकार्य पटुरिति प्रतीयते, परमनिपुणत्वादिकप्रतीतिः प्रयोजनम् । वैपरीत्यं -विरुद्धत्वं विरोधो वा, तेन सम्बन्धेनोपचारमुदाहरतिअभद्रमुखे भद्रमुख इति-अभद्रमुखे-कटुभाषिणि, तद्वैपरीत्येन भद्रमुखत्वोपचारः, तेन च तत्र भतिकटुभाषित्वं प्रतीयते, तदेव च प्रयोजनम् । यथा वाऽनुपकारिण्युपकारित्वन्यवहारः, यथा
"उपकृतं बहु तत्र किमुच्यते, सुजनता भवता प्रथिता परम् ।
विदधदीदृशमेव सदा सखे ! सुखितमारस्व ततः शरदां शतम् ॥” इति । 'बहुभिरपकारैस्तप्यमानस्य कस्यचिदुक्तिरियम्' इति शब्दव्यापारविचारनाम्नि ग्रन्थे मम्मटः । त्वया यत् बहु उपकृतं तत्र विषये किमुच्यते-किं वाच्यम् , भवता परं-केवलं, सुजनता प्रथिता-प्रकटिता, तथा च सौजन्यप्रयुक्त एवैतावानुपकारो न तु प्रत्युपकारलोभप्रयुक्त इत्याशयः । हे सखे ! ततः-यस्मात् सुजनता प्रथिता तस्मात् , ईदृशमेव सदा विदधत्-कुर्वत्, शरदां-वर्षाणां शतं व्याप्य, सुखितं-सुखयुक्तं यथा स्यात् तथा, आस्व-तिष्ठेति मुख्यया वृत्या
For Private And Personal Use Only