SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालक्कारचूडामणी काव्यानुशासने ग्रामः, अवयवावयविभावे-अग्रहस्त इत्यत्राममात्रेऽवयवे हस्तः, मानमेयभावे-आढको व्रीहिः, संयोगे-रक्तद्रव्यसंयोगाद् रक्तः पट:; तात्कर्म्य-अतक्षा तक्षा; वैपरीत्ये-अभद्रमुखे भद्रमुखः ॥ १७ ॥ यथा-राजकीये पुरुषे 'राजा' इति प्रयोगो राजनिरूपितस्वत्ववान्-राजकीयः अमात्यादिः, पुरुषः जनः, राजा अलङ्घनीयाज्ञत्वेन तत्सादृश्यात् , तत्वेन [अलङ्घनीयाज्ञात्वेन ] प्रत्यायनमेव चोपचाराश्रयणप्रयोजनम् । सम्बन्धो हि सम्बन्धिभ्यां भिन्नो द्विष्ठो विशिष्टबुद्धि नियामकः पदार्थः, एवं स्वस्वामिभावस्थापि सम्बन्धत्वेन तत्रापि सम्बन्धिद्वयावश्यंभावनियमः, एकः स्वं तदन्यश्च स्वामी, तत्र द्वयोरप्युपचारास्पदत्वं सम्भवति, तयोः स्वामिसमर्पकस्य राजपदस्योपचाराश्रयत्वमुदाहृतं, साम्प्रतं स्वस्य [ अधिकृतस्य ] उपचारास्पदत्वमुदाहरति-ग्रामस्वामी ग्राम इति-अत्र स्वामिनि अतिस्निग्धत्वनिर्भरत्वादिप्रतीतिः प्रयोजनम् । अथ सम्बन्धान्तरमुदाहरति-अवयवावयविभाव इति । अग्रहस्त इति प्रयोगः, अग्रमात्रे हस्तावयवे हस्तत्वव्यवहारोऽवयवाऽवयवि-भावसम्बन्धमूलक एवेति भावः, तत्र-अग्रं च तदस्तश्चेति कर्मधारयसमासः, तेन पूर्वोक्तेन सम्बन्धेनैव अग्रमाने हस्तावयवे हस्तत्वव्यवहारः, तन्मूलकमेव च तयोः सामानाधिकरण्यं, तञ्च गौणीवृत्तिकृतमेव । हस्तसमकार्यकारित्वप्रदर्शनेच्छया चायं प्रयोगः । अग्रमात्रे बलाधिक्यप्रतीतिश्च प्रयोजनम् । अवयवपुञ्ज एवावयवीति मतेऽवयवान्तरव्युदासायामपदम् । केचित् तु-'अग्रहस्त' इत्यखण्ड एवायं शब्दो हस्ताग्रवाचक इति वदन्ति । अन्ये तु-हस्तस्याग्रमित्येव विगृह्य अनशब्दस्याहिताग्निपाठात् पूर्वनिपातं, राजदन्तादिपाठाद्धस्तशब्दस्य परनिपातं वाऽऽश्रित्यात्र मुख्यामेव वृत्ति कथयन्ति, तन्मते 'पीता कर्पटिकैर्गङ्गा' इति गङ्गैकदेशे गङ्गात्वोपचार उदाहार्यः । एवं सम्बन्धस्यासंख्येयत्वेन मानमेयभावसम्बन्धस्यापि विशिष्टबुद्धि नियामकत्वस्य दृष्टतया तद्धेतुकमुपचारमप्युदाहर्तुमाह-मानमेयभावे-आढको व्रीहिरिति "पलं प्रकुञ्चकं मुष्टिः, कुडवस्तञ्चतुष्टयम् ।। चत्वारः कुडवाः प्रस्था, चतुःप्रस्थमथाढकम्" [ ] इत्यादि परिभाषितमाढकपदं चतुःप्रस्थपरिमाणवाचकम् , तेन सह मानमेयभावसम्बन्धविधया आढकमितो व्रीहिरिति प्रयोक्तृत्वे सामानाधिकरण्येन प्रयोगो न्यूनाधिकत्वाभावप्रतीतिरूपप्रयोजनाय । यद्यपि वैयाकरणमतेऽनाढकशब्दोत्तर For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy