________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १७ ।
१८७
संबन्धे-कार्यकारणभावे-आयुर्घतं, आयुरेवेदम्, अनान्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि प्रयोजनम् , तादयें-इन्द्रार्था स्थूणा इन्द्रः, स्वस्वामिभावे-राजकीयः पुरुषो राजा ग्रामस्वामी
इष्टेति वार्तिकार्थः, अविनाभावोऽत्र न व्याप्तिः किन्तु सम्बन्धमात्रमिति सादृश्यस्यापि परिग्रह इति बोध्यम् । पूर्वोक्तयो\ण्यावृत्तेरुदाहरणयोर्मध्ये गौर्वाहीक इति प्रथमभेदे वाहीकपदप्रयोगातू गो-वाहीकयोवैधये भासमानेऽपि ताद्रूप्यप्रतीतिः प्रयोजनम् ; गौरयमित्यन्त्र गोत्व-वाहीकत्वयोर्भेदप्रतीतिं विनैवाभेदप्रतीतिौणवृत्त्युपाश्रयणस्य प्रयोजनं बोध्यम् । परमते च यथाऽस्या लक्षणायामेवान्तर्भावस्तदुक्तपूर्वम् ॥
सूत्रे 'निमित्ते' इत्यस्य पदस्य 'सादृश्यसम्बन्धादौ च' इति व्याख्या कृता, तन्त्र सादृश्यनिमित्तिकां गौणी वृत्तिं भेदाभेदाभ्यामुदाहृत्य साम्प्रतं सम्बन्धनिमित्तां तामुदाहर्तुमारभते-सम्बन्धे इत्यादिना । सम्बन्धश्च बहुरूपः, तत्र प्रथमं जन्यजनकभावरूपं सम्बन्धमाह-कार्यकारणभावे इत्यादिना । आयुघृतमिति भेदेन, आयुरेवेदमिति चाभेदेनोदाहरणम् , आयु:-दीर्घकालजीवनम् , घृतं जनकम् , आयुर्जन्यम् , जन्यजनकभावः सम्बन्धः, तयोश्च गौण्या वृत्त्याऽभेदः, तेनायुरभिन्नं घृतमिति बोधः । आयुर्जनकं घृतमित्यनुक्त्वा आयुर्घतमिति गौण्याश्रयणस्य किं फलमित्याशङ्कायामाह-अत्रान्यलक्षण्येनाव्यभिचारेण चेत्यादि-यान्यन्यायुर्जनकानि वस्तूनि तेभ्यो विलक्षणेन रूपेणेदमायुजनकम् , अन्यानि च क्वचित् तज्जनने व्यभिचरन्त्यपि, घृतं तु न कदाचिद् व्यभिचरतीति च बोधनं गौणीवृत्तिसमाश्रयणस्य फलमिति भावः। तस्मै इदं तदर्थ, तस्य भावस्तादर्थ्यम् , तस्मात् तादर्थ्यरूपात् सम्बन्धादुपचारमुदाजिहीर्षुराहतादर्थ्य इन्द्रार्था स्थूणा इन्द्रः इति-इन्द्रार्था इति तादर्थ्यप्रदर्शनमात्रार्थ, न तु प्रयोगान्तर्गतम् , 'स्थूणा इन्द्रः' इत्येतावन्मात्रस्यैव प्रयोगत्वात् । तादथ्य चोपकार्योपकारकभावः, याइये कर्मणि स्थूणा [स्तम्भविशेषः] इन्द्रसम्बन्धिपूजादिकर्मोपकारकत्वेन निर्मिता, इन्द्राय निवेदिता वा इन्द्रशब्देनोपचर्यते, तत्रेन्द्रशब्दो गोण्या वृत्त्या स्थूणया सहाभेदेन सम्बन्धमामोति, तद्वत् [ इन्द्रवत् ] इष्टप्रदत्वरूपं प्रयोजनं व्यङ्ग्यम् । सम्बन्धान्तरस्योदाहरणमाह-स्वस्वामिभावे इति-स्वं स्वामिनाधिकृतं वस्तु, स्वामी-स्वत्वेन स्थितस्य वस्तुनः स्वत्वनिरूपकः,
For Private And Personal Use Only