SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणी काव्यानुशासने १८६ एव लक्ष्यन्ते, न तु परार्थाऽभिधीयत इत्यन्ये । साधारणगुणाश्रयेण परार्थ एव लक्ष्यत इत्यपरे । तदर्थः - गोत्वं, तत्सहचारिणः- तत्समानाधिकरणाः, तदधिकरणवृत्तय इति यावत्, गुणाः- जाड्य-मान्यादयः, तैरभेदः - साजात्यं [ भेदो वैजात्यं तद्विरुद्धं साजात्यम् ] तेन, पदार्थगता परार्थाः - वाहीकाः, तद्गता गुणाः तद्वृत्तयो गुणा एव, लक्ष्यन्ते गोण्या उपस्थाप्यन्ते, न तु परार्थो वाहीकरूपोऽभिधीयते [ अभिधया प्रतिपाद्यते ] तस्याक्षेपेण वाहीकशब्दादेव लाभसंभवादिति भावः । तथा च गोगतजाड्यादिसजातीय जाड्यादिमान् वाहीक इति बोधः ॥ अत्रापि 'अन्ये' इत्युक्त्याऽरुचिः सूचिता, तद्वीजं तु एकधर्मिबोधकत्वाभावात् गौर्वाहीक इति सामानाधिकरण्यानुपपत्तिः । न च जातिशक्तिवाद इवानुमानरूपाऽऽक्षेपसहकृतेन पदेन व्यक्तिबोधाचानुपपत्तिरिति वाच्यम्, मुख्यार्थबाधे समाद्रियमाणाया गौण्या साक्षादन्वययोग्याऽर्थोपस्थापनस्यैवौचित्यात् । स्वसंमतं मतमाह - साधारणगुणाश्रयेणेत्यादि - साधारणाः- सजातीयाः, गुणाः- जाढ्यादयः, तदाश्रयत्वेन रूपेणेत्यर्थः, गोवृत्तिजाड्यादिगुणसमानजाड्यादिगुणाश्रयत्वरूपसम्बन्धेनेति यावत्, परार्थः वाहीक एव, लक्ष्यते, गौण्या [ लक्षणया ] समुपस्थाप्यते । अत्र च मते जाड्यादिगुणविशिष्टे पदार्थे [ धर्मिणि ] एव गौणी वृत्तिरिति न सामानाधिकरण्यानुपपत्तिरिति । अत्रार्थे मानं तु "मानान्तरविरुद्धे तु मुख्यार्थस्य परिग्रहे । "अभिधेयाविना भूतप्रतीतिर्लक्षणोच्यते ॥ लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता । " wwwm^^^^ इति भट्टवार्त्तिकमेव, मुख्यार्थस्य साना- लाङ्गूलादिमद्व्यक्तिरूपस्य परिग्रहेस्वीकारे, मानान्तरेण - प्रत्यक्षादिना, विरुद्धे सति, अभिधेयेन वाच्येन, गोत्वादिरूपेणार्थेन, अविनाभूतं सादृश्यादिसम्बन्धेन सम्बद्धं वाहीकादि, तदर्थस्य प्रतीतिः - प्रतीतिकरणभूतो व्यापारः, लक्षणा, गौणी वृत्तिर्वा, उच्यते कथ्यते । गौण्याः कारणमाह-लक्ष्यमाणाः - 'जाड्यादिगुणविशेष एव लक्षणा' इत्युक्तरीत्या लक्ष्यार्थविशेषगतया लाक्षणिकबोधविषयाः, ये गुणाः- जाड्य मान्द्यादयः, तैर्योगात् सम्बन्धात्, या वृत्तिः - गोपदस्य वाहीकार्थोपस्थापकता, तस्या गौणता For Private And Personal Use Only - -
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy