________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू०१७ ।
१८५
इदमतिशयोक्तिप्रथमभेदस्य । अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने निमित्तत्वमुपयान्तीति केचित् । स्वार्थसहचारिगुणामेदेन परार्थगता गुणा
मात्र इत्यादिपदाभिलप्यः। केचन च गौणी वृत्तिमनभिमन्यमाना लक्षणायामेव [ तेषां मते गौणी शुद्धाभेदेन लक्षणाया द्वैविध्येन गौण्यां लक्षणायां] गौणीवृत्तिमन्तर्भावयति, कुर्वन्ति च तस्याः 'सारोपा साध्यवसाना' इति भेदद्वयम् , भवति चेत्थं शाब्दबोधं प्रति लक्षणाजन्यत्वेनोपस्थितेः कारणत्वे लाघवम् , तत्र भेदनिवन्धना सारोपा, अभेदनिबन्धना च साध्यवसानेति काव्यप्रकाशादिषु स्पष्टम् ।
अत्र वादिभेदेन लक्ष्यार्थस्य स्वरूपे भेदमाह-अत्र स्वार्थसहचारिण इत्यादि-स्वस्य-गोशब्दस्य, अर्थः-गोत्वं जातावेव शक्तेः, तस्य सहचारिण:समानाधिकरणाः, [गोत्वाधिकरणवृत्तयः,] जाड्यमान्यादयो गुणा हि गोत्वेन सह गवि व्यक्तौ तिष्ठन्तीति तत्सहचारित्वं तेषाम् , लक्ष्यमाणा अपि गोशब्देन लक्षणया बोध्यमाना अपि, गोशब्दस्य परार्थाभिधाने, परार्थः-वाहीकरूपः, तस्याभिधाने अभिधया बोधने, निमित्तत्वं शक्यतावच्छेदकत्वम् , उपयान्ति प्राप्नुवन्ति । गोशब्दाद् गोण्या वृत्त्या प्रथमं जाड्याधुपस्थितिः, ततस्तद्धलेन वाहीकार्थस्याभिधया बोधः, गोशब्दो हि भिन्नार्थकत्वाद् वाहीकेन सहानुपपद्यमानसमानाधिकरणत्वेन बाधितमुख्यार्थः सन् स्वार्थसहचारित्वसम्बन्धेन जाड्यादिगुणान् गौग्योपस्थाप्य तानेव प्रवृत्तिनिमित्तीकृत्य [शक्यतावच्छेदकीकृत्य ] वाहीकमभिधया बोधयतीति निष्कर्षः । तथा च प्रदीपकाराः"गोशब्दस्य शक्त्या गोत्वं प्रवृत्तिनिमित्तं, [गौण्या] लक्षणया च गोशब्दार्थगतं जाड्यमान्द्यादिप्रवृत्तिनिमित्तं भवतीति गोशब्देन जडत्वेन रूपेण वाहीकः, शक्त्या बोध्यते” इति । तथा चात्रमते जाड्यमान्यादिवभिन्नो वाहीक इति बोधः । ___ अत्र केचिदित्यनेनास्वरस उद्भावितः, तद्वीजं तु- गोपदस्य वाहीके संकेताभावेनाभिधाभावः, जाड्यादिगुणानां गौण्योपस्थापितत्वेनाशक्यतया शक्यतावच्छेदकत्वासम्भवश्व, गोवृत्तिजाड्यादिगुणानां वाहीकावृत्तित्वरूपं चेति त्रयम् । मतान्तरमुपन्यस्यति-स्वार्थसहचारिगुणाभेदेनेत्यादिना-स्व-गोशब्दः,
For Private And Personal Use Only