________________
Shri Mahavir Jain Aradhana Kendra
१८४
सालङ्कारचूडामणी काव्यानुशासने
तत्र सादृश्ये निमित्ते भेदेनारोपितो यथा - गौर्वाहीकः, इदं वक्ष्यमाणस्य रूपकालङ्कारस्य बीजम् । अभेदेन यथा - गौरेवायमिति.
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
"
www
तत्र सादृश्ये निमित्ते भेदेनारोपितो यथेति भयमाशयः - गौर्वाहीक इत्यादौ गो-वाहीकपदयोः पृथगर्थयोः प्रयोगेऽन्वयो नोपपद्यत इति गोशब्दार्थस्य सादृश्यसम्बन्धेन तत्रारोपः तथा चात्र वाहीकस्याऽप्युपादानात् तयोरर्थयोभेदोऽपि प्रतिभासत एव, सादृश्यस्य च भेदमूलकत्वात् एवं च गोसदृशो वाहीक इत्यर्थप्रतीतिः । इदं सादृश्यारोपणं, रूपकालङ्कारस्य बीजमिति"साइये भेदेनारोप रूपकम् [ एकानेकविषयम्, का. शा. अ. ६, सू. ५] " इति सूत्रेण सादृश्ये निमित्ते सति भेदेन विषय-विषयिणो निर्देशेनारोपो + + + रूपकमिति तल्लक्षणेन परस्परविरुद्ध धर्मवत्त्वेनोपस्थिततया प्रकाशितभिन्नस्वरूपयोरप्युपमानोपमेययोरतिसाम्यप्रदर्शनाय काल्पनिको ऽभेदारोपो रूपकनामाऽलङ्कार इत्यायाति । तथा च गौर्वाहीक इत्यत्र गोल्यवाहीकस्वरूपपरस्परविरुद्धधर्मवत्तयोपस्थितयोग- वाहीकयोरभेदारोप इति रूपकालङ्कारलक्षणसङ्गतिः । क्षत्र वाहीके गोत्वस्य बाधितत्वात् सदृशरूपार्थे गौणीं वृत्तिमकल्पयित्वा नास्ति सम्भवोऽभेदान्वयस्येति तथा कल्प्यते । यत् तु केचित् - 'रूपकस्थले नास्ति गौणीवृत्तिस्वीकारस्यावश्यकता, समानविभक्तिकत्वेनाभेदान्वये बाधाभावात्' इति कथयन्ति, तत् तुच्छम् 'गौर्न वाहीकः ' 'मुखं न चन्द्रः' इत्यादिप्रबल प्रत्यक्षज्ञानेनाभेदबोधेऽप्रामाण्यग्रहोत्पादनात् मन्यतां वा तथा बोधे बाधाभावस्तथापि तादृशबोधश्वमत्कारकारी न स्यात्, तथा चालङ्कारजीवातुभूते चमत्कारे गते रूपकमनवसरभ्रष्टमेव स्यात्; तथा चेदं भेदेनारोपस्योदाहरणं सुस्थम् । अभेदेनारोपस्योदाहरणमाह-यथा - गौरे वायमिति । इदम् अभेदेनारोपणम्, अतिशयोक्तिनामालङ्कारे प्रथमस्य प्रभेदस्योदाहरणं बीजं वा, "विशेषविवक्षया भेदाऽभेदयोगाऽयोगव्यत्ययो ऽतिशयोक्तिः " [ का. शा. अ. ६, सू. १० ] इतिह तल्लक्षणम्, तत्र प्रथमातिशयोक्तिरित्थं निरूपिता – “प्रकृतस्यार्थस्य विशेषविवक्षया [ विशेषवर्णनेच्छया ] भेदस्य व्यत्ययोऽभेदाभिधानं यत् तदतिशयाभिधानादेका [ प्रथमा ] अतिशयोक्तिः ।" तथा चेह प्रकृतोऽर्थो वाहीकस्तस्य विशेषमतिशय जाड्य मान्द्यादिगुणं वक्तुमिच्छया गवाभेदस्य व्यत्ययोऽभेदाभिधानं च कृतमित्यसावलङ्कारः स्फुटः । सोऽयं गौणीवृत्तिलभ्यो गौणोऽर्थः, अयमेवोपचरितो
>
-
For Private And Personal Use Only
"