________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १७ । १८३ प्रत्यक्षादिना प्रमाणेन बाधे, निमित्ते च-सादृश्यसंबन्धादौ प्रयोजने च सादृश्यताप्यप्रतिपत्तिरूपे सत्यारोप्यारोपविषययोर्भेदाभेदेन च समारोपितोऽतथाभूतोऽपि तथात्वेनाध्यवसितो गुणेभ्य आयातत्वाद् गौणः, तद्विषयः शब्दोऽपि गौण उपचरित इति चोच्यते ।
देशभेदे चेत्युक्तम् , तथा च तन्मतेन पञ्चनदप्रदेशे प्रसिद्धा 'जाट'नाम्नी जातिर्वाहीकपदवाच्येति, तत्र च गोशब्दस्य सामानाधिकरण्येन प्रयोगो गौर्वाहीक इति, गोत्वस्यैवातिशयेन प्रतिपादनाय गौरेवायमिति च, तत्र गोशब्दस्य मुख्योऽर्थः सानादिमत्त्वादिः, तदर्थस्यैव तत्र साक्षात्संकेतविषयस्वात् तत्रैव च तत्पदं रूढम् , तस्य वाहीकेन सह सामानाधिकरण्यं बाधितं प्रत्यक्षतस्तन्त्र तदभावस्य गृहीतत्वात् । प्रत्यक्षादिनेत्यत्र आदिपदं प्रमाणान्तरोपसंग्रहाय स्थलान्तरापेक्षया, तथा च मुख्यार्थस्य वाहीकेऽन्वयासम्भवेन बाधे सति, निमित्ते च सादृश्यसम्बन्धादाविति-वाहीकादौ गोशब्दादीनां प्रयोगो हि किमपि निमित्तममिसमीक्ष्यैव क्रियतेऽन्यथाऽसम्बद्धतापत्तेः, तन्निमित्तं च सादृश्यं सम्बन्धान्तरं च । प्रयोजने तादृशाख्यानेन प्रतिपादनीये फले, तदाह-सादृश्य-ताद्रूप्यप्रतिपत्तिरूपे इति-सादृश्यम्-आरोप्येन सह साधर्म्यम् , ताद्रूप्यम्-तादात्म्यं तयोः प्रतिपत्तिः-भानं, तदेव तद्रूपं तस्मिन् , सादृश्यभानरूपे तादात्म्यभानरूपे च प्रयोजने सतीति भावः । आरोप्यारोपविषययोरिति-आरोप्यं-गोत्वम् , आरोपविषयः-आरोपाश्रयो वाहीकादिः, तयोः, मेदाभेदेन चेति-भेदेनाभेदेन चेत्यर्थः । 'आरोपित' इति सूत्रस्थं पदं व्याख्याति-समारोपित इति । तदेव स्पष्टयति-अतथाभूतोऽपि तथात्वेनाध्यवसित इति-वाहीको हि न गौः सम्पन्नस्तथापि तत्त्वेनाध्यवसीयते, विषयनिगरणेन विषयिणोऽभेदप्रतिपत्तिरध्यवसानम् , विषयो वाहीकादिरिह निगीर्यते-अन्तः प्रवेश्यते-गोशब्दार्थनात्मनि प्रविलाप्यते । गौण इति विशेष्यवाचकं पदं व्याख्याति-गुणेभ्य आयातत्वादिति-गोसहचारिजाड्यमान्द्यादिगुणेभ्यस्तस्यार्थस्य वाहीकादावायातत्वादागतत्वात् सोऽर्थों गौण इत्याख्यायत इत्यर्थः । तद्विषयः-गौणार्थविषयः, गौणार्थप्रतिपादक इति यावत् ,शब्दोऽपि गौण इति-तस्यापि तद्वाच्यगतगुणकारणादेवायातत्वात् तस्याऽपि तेन पदेनोक्तिरुचितैवेति भावः । तस्याभिधान्तरमप्याह-उपचरित इति चोच्यत इति । सूत्रार्थ वर्णयित्वोदाहरति
For Private And Personal Use Only