________________
Shri Mahavir Jain Aradhana Kendra
१८२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
गौणं लक्षयति
मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः ॥ १७ ॥
गौर्वाहीको गौरवायमित्यादौ मुख्यस्यार्थस्य सास्नादिमत्त्वादेः
अन्यपक्षाणां च क्षोदक्षमत्वाभावात् तदुपेक्षा कृता, तथाहि - जातिमात्रस्य शक्यत्वमिति मीमांसकमते, गोपदात् गोव्यक्तिभानानुपपत्तिः, व्यक्ति-जात्योः सामानाधिकरण्याभावेन व्यासेरभावेनाक्षेपरूपानुमानासंभवात् तादात्म्येन व्यक्तेर्जातेश्व तत्र व्याप्तेरभ्युपगमेऽनुमाने जायमानेऽपि व्यक्तेर्वृत्त्या पदोपस्थित्यभावेनापदार्थस्वेन तत्र विभक्त्यर्थसंख्या- कर्मत्वादीनामन्वयानुपपत्तिः । न चापदार्थभूतव्यक्तौ विभक्त्यर्थान्वयः शक्यः कर्तुम्, सुब्विभक्तीनां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः । न चात्र व्युत्पत्तौ प्रकृत्यर्थ इत्यस्य प्रकृतितात्पर्यविषय इत्यर्थमुपवर्ण्य जातिशक्तौ व्यक्तिमाझेपलब्धां तत्तात्पर्यविषयतया सुबर्थो विशेषयिष्यतीति पादप्रसारिकानिस्ताराय शक्तिग्राहकानयनादिव्यवहारस्य जातिविषयत्वाभावात् । जाति-व्यक्त्योरुभयन्न शक्तत्यभ्युपगमे च गौरवम्, तथा चोपाधिचतुष्टयपक्ष एव साधीयानित्यलम् ॥ १६॥
मुख्यमर्थं सविभागं निरूप्य क्रमप्राप्तं गौणमर्थं निरूपयितुं प्रवृत्तं सूत्रमवतारयति - गौणं लक्षयतीति । 'मुख्यार्थबाधे० ' इत्यादि सूत्राक्षराणि व्याचष्टेगौर्वाहीक इत्यादिना । अत्र परगतस्य गुणस्य परस्मिन्नारोपादेव गुणादागतत्वमूलकं गौणत्वं शब्देऽर्थे च तत्रारोपश्च द्विरूपो भेदेनाभेदेन च, तथा च मुख्यमिमं प्रकारद्वयमादायोदाहरणद्वयमाश्रित्य सूत्रार्थसङ्गमनपुरःसरं पदानि व्याख्यातिगौर्वाहीकः, गौरेवायमिति प्रथममुदाहरणं भेदेनारोपस्य, अनोभयोरपि भिन्नतया समुल्लेखात्, गौरेवायमिति चाभेदेनारोपस्योदाहरणम् । वाहीको हि शास्त्रीयाचार बहिर्भूतो म्लेच्छादिः, अथवा वाहीको नाम देशविशेषः ।
"
"
"पञ्चानां सिन्धुषष्टानां नदीनां येऽन्तराश्रिताः ।
तान् धर्मबाह्यानशुचीन्, वाहीकान् परिवर्जयेत् " ॥
इति महाभारतकर्णपर्वोक्तः पञ्चनद ( पंजाब ) प्रान्तैकभागः, तत्रभवोऽपि चाहीक इत्येव । शब्दस्तोममहानिधौ च - 'वह ईकण् ।' जातिभेदे (जाट),
wwww
wwwwwwwwwwww
For Private And Personal Use Only