SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, १६ । १८१ रीत्योपाधिष्वेव सङ्केतः मीमांसकरीत्या जातावेवेत्थं च द्वयोरपि मतयोर्व्यक्ती संकेताभावात् कथं तद्बोधः कथं वा तस्यानयनादिक्रियान्वयित्वमिति चेत् ? सत्यम्-व्यक्त्यविनाभावाजात्या व्यक्तेराक्षेपात् ; न चाक्षिप्तस्य [अनुमितस्य ] कथं शाब्देऽन्वयः ? शब्दोपस्थितस्यैव तत्रान्वयस्वीकारादिति वाच्यम् । अनुमानसहकारेण तत्र शब्दादेव व्यक्त्युपस्थितिस्वीकारादिति । __ अथ नैयायिकमतमाह-तद्वानित्यपरे इति-जातेयंत्यविनाभूताया एवार्थक्रियाकारित्वदर्शनात् व्यक्ति बिना तस्याः क्वाऽप्यनुपलम्भाञ्च व्यक्तिविशेषमनन्तर्भाव्यसामान्यतो जातिमत्त्वेन तस्य शब्दार्थत्वम् , जातिमान् [गोत्ववान् ] गोशब्दार्थ इति स्वीकरणीयम् , केवलव्यक्तिशक्तिवादे भानन्त्यव्यभिचारयोदेर्शितत्वात् केवलजातिशक्तिवादे च व्यक्तेरभानादिति जातिसहिता व्यक्तिरेव वाच्यत्वेनाभ्युपेयेति तेषामाशयः ॥ बौद्धास्तु-जातेरदृष्टत्वेन विचारासहत्वाद् व्यक्तेश्च क्षणिकत्वादानन्त्याचोभयत्रापि सङ्केतः कर्तुमशक्य इति गवादिशब्दानामगवादिव्यावृत्तिरूपोऽपोहोऽर्थः स्थिरं सामान्यं तैर्नाभ्युपेयते सर्वस्यापि क्षणिकत्वाभ्युपगमात् । तथा चोक्तं काव्यप्रदीपेऽपि-व्यक्त्यवानन्त्यादिदोषसद्भावात् भावस्य जात्यादिरूपस्य देशकालानुगमाभावात् तदनुगतायामतघ्यावृत्तौ संकेत इति, ते आहुरिति 'अपोह' इत्यत्र विवेके तु-जातिव्यक्तितत्सम्बन्धजन्यजातिमतां बुद्ध्याकाररूपाणामवास्तविकानां शब्दार्थावस्यानुपपश्चत्वाद् गवादिशब्दानामगोव्यावृत्तिरूपस्तद्विशिष्टं वा बुद्धौ प्रतिबिम्बभूतं सर्वथा बाह्यार्थशून्यमन्यापोहशब्दवाच्यं शब्दार्थः इत्युक्तम् ॥ एतेषु मतेषु कतमन्मतमलंकारशास्त्रे समादरणीयमिति स्वानुमतमिति वा विचारे पूर्वोक्तोपाधिचतुष्टयसङ्केतवाद एवेति निश्चीयते, तथाहि-तन्मतं प्रतिपाद्य महाभाष्यकारवचनेन च समर्थ्य 'जातिरेवेत्येके' 'तद्वानित्यपरे' 'अपोह इत्यन्ये' इत्येतेषु 'एकेऽपरेऽन्ये' शब्दैः स्वारुचेः स्पष्टं प्रतिपादितत्वात् । किञ्च, सदसन्निबन्धननियमादिशिक्षाप्रदर्शनस्थले जात्यादिकृतार्थविभागस्य स्वेन समुल्लेखात् । किञ्ज, "अर्थानां विरोधाभासो विरोधः" [का. शा. अ. ६, सू. १२] इति सूत्रव्याख्यायामपि 'जाति-गुण-क्रिया-द्रव्यरूपाणां पदार्थानां सजातीयेन विजातीयेन वा वस्तुवृत्याविरोधेऽपि' इत्यादिना जात्यादिरूपस्यैव पदसङ्केतत्वमाश्रितम् , For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy