________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
Anand
सालङ्कारचूडामणौ काव्यानुशासने __जात्यादिस्वरूपं च प्रकृतानुपयोगानेह विपश्यते । जातिरेव सङ्केतविषय इत्येके, तद्वानित्यपरे, अपोह इत्यन्ये ॥ १६ ॥
शुक्लादिगुणानां गुड-तण्डुलादिनिष्ठानां पाकादिक्रियाणां तत्तदुदीरितयदृच्छाशब्दानां च प्रतिधर्मि वैधय॑दर्शनामानात्वेन तत्र शक्तौ स्वीकृतायां व्यक्तिपक्षवदानन्त्यव्यभिचारयोर्दोषयोरापात इति न शकनीयम् , उक्तभेदस्योपाधिनिबन्धनत्वेनानन्त्यादिदोषानावहत्वात् , यथैकस्यैव मुखस्य कृपाण दर्पण-तैलादिषु प्रतिबिम्बितस्य भेद इव लक्ष्यते, तथैकरूपाणामपि तेषां भिन्नत्वेन प्रतिभासस्याश्रयौपाधिकत्वस्य कल्पयितुं युक्तत्वात् ।
इत्थं जात्यादिभेदेन शब्दानां चातुर्विध्यमूरीकृत्यापि जात्यादिप्रदर्शनं विना कथं तत्स्वरूपं ज्ञातुं शक्यते इति तदप्रदर्शननिमित्तां न्यूनताशङ्कां परिजिहीर्षुराह-जात्यादिस्वरूपं च प्रकृतानुपयोगादिति-जाति-गुण-क्रियाद्रव्याणां स्वरूपं सवैर्विज्ञातमेव, तत्प्रतिपादनपरग्रन्थेषु तस्य प्रतिपादितत्वात् , एकत्रैव ग्रन्थे सर्वविधविषयप्रतिपादनं हि दुःशकमनावश्यक चेति प्रकृतोपयोगमसमीक्ष्य न तथा निरूपणं कृतमिति भावः ॥
अथ मीमांसकमतमाह-जातिरेव सङ्केतविषय इत्येक इति । अयमाशयः-हिम-पयः-शङ्ख-बलाकाद्याश्रयेषु समवेतशुक्लादिगुणेषु विभिन्नतया प्रतीतेषु यद्वशेन 'शुक्लः शुक्लः' इत्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत्तद्गतं सामान्यमेवेति तद्वाचकत्वमेव तेषामित्याश्रयणीयम् ; गुड-तण्डुलादिपाकेषु विभिन्मतया प्रतीयमानेषु यद्वशात् 'पाकः पाकः' इत्यभित्रा प्रतीतिर्जायतेऽभिधीयते च, तत्पाकत्वायेव तेषां क्रियाशब्दानां वाच्यम् ; एवं यदृच्छाशब्दानामपि द्रव्यमानवाचकानां डिस्थादिशब्दानां शुक-सारिका-मनुष्याधुच्चारणवशेन प्रतिक्षणं भिद्यमानानां यत्कृता भेदप्रतीतिस्तत् डित्यादिशब्देषु समवेत डित्थत्वादि सामान्यमेव यथायोग्यं तत्तत्संज्ञिवध्यस्तं वाच्यम्, अथवा डिस्थादिसंज्ञिन्येकस्मिअपि प्रतिपलमुपचयापचययोगितया भिद्यमाने यन्महिम्ना 'डित्थो डित्थः' इत्यभिबाकारोऽबाधितः प्रत्ययो जायते, तत् डित्थादिशब्दवाच्यवस्तुसमवेतं डित्थस्वादिसामान्यमेव तेषां वाच्यमिति, इति गुण-क्रिया-यहच्छाशब्दानामपि जातिशब्दत्वात् सर्वेषां जातिरेव वाच्येति तत्रैव सङ्केतग्रहः। ननु महाभाष्यकार
For Private And Personal Use Only