SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १६ | 4 3 'गौः शुक्लः, चलो, देवदत्तः' इत्यादिशब्दानां विषयविभागो न स्यादिति तदुपाधिष्वेव सङ्केत इति कल्प्यते । अयमाशयः - व्यक्तावेव संकेतो युक्त इति वादिना, किं सर्वासु गोव्यक्तिषु संकेतग्रहो व्यवहारस्य कारणं, कस्याचिदेकस्यां गोव्यक्तौ वा संकेतग्रहस्तत्र कारणमित्यभिधातव्यम्, तत्राद्यमतस्वीकारेऽनन्तानां गोव्यक्तीनां सहैकदोषास्थित्यसम्भवेन तत्र संकेतग्रहासम्भवो दोषः द्वितीयपक्षे तु यस्यां गोव्यक्तौ संकेतः कृतस्तदतिरिक्ताया गोव्यक्तेगोशब्दाद् भानं न स्यात्, तत्र संकेतस्यागृहीतत्वात् न चैकत्र व्यक्तौ जाते संकेतग्रहे द्वितीयाऽपि गोव्यक्तिर्ब्रहीष्यत इति वाच्यम्, तथा च सत्यगृहीत संकेतोऽप्यर्थः प्रतीयत इत्यायातमित्यकृतसंकेतं गवान्तरं यथा गोशब्दः प्रतिपादयेत् तथा तादृशमश्वरूपमर्थं कुतो न प्रतिपादयेदगृहीत संकेतत्वाविशेषादित्यापत्तेः । संकेतविषयगोव्यक्ति - तदितरगोव्यक्त्योः साजात्येन गोव्यक्तौ गृहीतः सङ्केतोऽपरत्र गोव्यक्तावेवोपयोगमा धास्यति न विजातीयाश्वव्यक्ताविति कल्पनायां तु साजात्यकल्पितायां जातावेव सङ्केत इति कल्पनमेव लघु । इत्थमुपपादित आनन्त्यव्यभिचारदोषो येन व्यक्तौ सङ्केतो ग्रहीतुं न शक्यत इति । अथ व्यक्तिपक्षे - व्यक्तावेव शक्तिरिति पक्षे 'गौः शुक्रश्चलो देवदत्तः' इत्येतेषां विषय विभागो न स्यादित्युक्तं तदुपपाद्यते, व्यक्तावेव सङ्केतग्रहे सर्वेषां पदानां व्यक्तिवाचकत्वेनैषां पदानां पृथक्पृथगर्थबोधकत्वं यदनुभूयते तन्न स्यात् । तथाहि - उक्तप्रयोगे गोत्वरूपजातिमदभिन्नः शुक्लरूपगुणवान्, चलन क्रियाश्रयो देवदत्तनामेति बोधो भवति, स च सर्वेषां पदानां विषयविभागेनैव प्रवृत्तिनिमित्तभेदेनैवोपपद्यते, सति च सर्वेषां व्यक्तिवाचकत्वे सर्वैरेव पदैरेकैव गोव्यक्तिरुच्यत इति विषयविभागो न स्यात् । न च माऽस्तु विषयविभागस्तेन का नो हानिरिति वाच्यम्, यतो विषयविभागाभावे सर्वेषामपि शब्दानां गौरित्यादीनां समानार्थकरवेन 'घटः कलशः' इति समानार्थशब्दयोः सहप्रयोगाभाववत् तेषामपि शब्दानां सहप्रयोगो न स्यात् । उपाधिवादे तु जाति-गुण- क्रिया- यद्दच्छानां प्रवृत्तिनिवृत्तिरूपविषयाणां भेदे सति तेषां सर्वेषां पर्यायत्वाभावादुपपद्यते सह प्रयोग इति । इत्थमुक्तदोषद्वयनिरासाय विषयविभागोपपादनाय च पूर्वोक्त जात्यादिविषयविभागो नितरामावश्यक इति सुस्थम् । एषां च कथमुपाधित्वमित्युपपादितं पूर्वम्, तथा चोपाधिचतुष्ट्वेन शब्दानामपि चतुष्ट्वम् एषां च भेद उपाधिकृतो न वास्तविक इत्यपि ज्ञेयम्, तेषां सर्वेषां वस्तुत एकरूपत्वात्, यथैकस्यैव मुखस्य खड्ग-मुकुर-तैलाद्यालम्बनभेदाद् भेद इव । अयमाशयः - शङ्ख - पयः - पटादिनिष्ठानां " For Private And Personal Use Only १७९
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy