________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १४।
१७१
अत्र रावणस्य दृग्विंशतौ वैचित्र्येण स्वभावोक्तिनिर्वाहितापि रसस्याङ्गत्वेन न योजितेति ॥ १४ ॥ रावणे स्वस्यानेकभावसङ्कुलितत्वं कामोन्मादपरवशत्वं वाऽभ्यूहितम् , सहैव तत्तत्सामग्रीसशिपाते रावणस्य विंशतिर्नयनानि तत्तद्भावजनितत्तद्रसोद्रेकमहिन्ना तत्तद्भिनक्रियाणि भवन्ति । अत्र निर्वाहेऽप्यनङ्गत्वं कथमिति दर्शयति-अत्र रावणस्य दग्विशताविति-वैचित्र्येण वैलक्षण्येन, स्वभावोक्तिः स्वक्रियावर्णनम् , तद्रूपो जात्यलकारः, निर्वाहिता आरभ्य समुचितरूपेण समापिताऽपि, रसाङ्गत्वेन प्रकृतविप्रलम्भशृङ्गाराङ्गत्वेन तदुपकारकत्वेनेति भावः, न योजिता रसोपकारकत्वेन तत्संघटने न कवेरभिप्रायो नवा तथोपपत्तिरिति भावः । यद्यपि रसभेदाद् दृष्टिभेदवर्णनं कविसम्प्रदायः, यथा
"एकं ध्याननिमीलनान्मुकुलितप्रायं द्वितीयं पुनः, पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसम् । अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं,
शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥"[ ] इत्यत्र, अत्र च 'समाधिसमये' इत्यस्य स्थाने 'समाधिविगमे' इति पाठः समुचितः, तपस्यतः शम्भोः पार्वत्या परिचर्यमाणस्य कामदेवकृतोपद्रवेण समाधिभङ्गे सति त्रयाणामपि नेत्राणां भिन्नभिन्नरसत्वेन वर्णनं कृतम् , तथाहि-प्रथमे पादे शान्तः, द्वितीये शृङ्गारः, तृतीये क्रोधः, तदीयविभावादयोऽपि च वर्णिताः, इत्यत्रापि भिन्नक्रियत्वेन सर्वेषां रावणनेत्राणां वर्णनं नानुचितं तत् तथापि रसवशादेकैकमन्यक्रियमित्येतावन्मात्रेऽप्युक्ते तत्तद्रसव्यभिचारिभेदप्रवृत्तये योगपद्याशुभावित्वसंभावनाय च किञ्चिद् विभाववैचित्र्यमुदाहृतश्लोकवदुदाह्रियमाणपद्यवद्वा वाच्यम् , तदिह तत्तद्रसानुगुणविभावादिकृतं तत्तद्रसव्यभिचारिभावजागरणप्रदर्शनं सावलेपतया कविना न कृतमिति रसानुगुण्याभाव इति भावः । कृतश्चात्र प्रदयमाने श्लोके विभावप्रदर्शनादिकृतो वैचित्र्यहेतुनिर्देशो यथा
"सभायां तादृश्यां नरपतिशतैरक्षकितवैः, समभ्याकीर्णायामृतुपरिचितामेकवसनाम् । यदाक्षीद् दुःशासननरपशुः केशनिचयान् , न कस्यासीत् तेन अकुटिविषमो वाष्पविसरः ॥"[ ]
For Private And Personal Use Only