SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ सालङ्कारचूडामणौ काव्यानुशासने शब्दार्थयोः स्वरूपमाह मुख्य-गौण-लक्ष्य-व्यङ्गयार्थभेदात् मुख्य-गौण-लक्षक-व्यञ्जकाः शब्दाः ॥ १५॥ अक्षक्रीडायां पाण्डवैद्रौपद्यां हारितायां दुर्योधनादेशात् तत्सभायामृतुधर्मपरिगतां द्रौपदी दुःशासने केशेषु कर्षति तत्रत्यानां सत्पुरुषाणां शोकक्रोधयो. रुदयस्य वर्णनमिदम्-अक्षकितवैः अक्षक्रीडायां चतुरैः, नरपतिशतैः, समभ्याकीर्णायां व्याप्तायां, तादृश्याम् अक्षक्रीडासमुचितायां, सभायां, दुःशासननरपशुः, ऋतुपरिचितां स्त्रीधर्मे [ऋतुसमये ] वर्तिनीम् , अत एव एकवसनां एकवस्त्रमात्रच्छन्नशरीराम् , केशनिचयान् केशसमूहेषु, कृषेर्द्विकर्मकत्वेनाकथित कर्मत्वं केशानाम् , यत् अक्राक्षीत् , कृष्टवान् , तेन कस्य भुकुटिविषमः भृकुट्या-क्रोधसंसूचकभ्रभङ्गेण, विषमः-विरुद्धः, बाष्पविसरः-अश्रुनिपातः शोकसूचको नासीत् नाभूत् , अपि तु सर्वस्यैव क्रोधशोकयोरनुभावा. विमौ जातावित्यर्थः ॥ अत्र भृकुटिबाष्पयोः क्रोधशोकानुभावयोः योगपद्यमाशुभावो वा, ऋतुपरिगतकुलवधूवस्त्राकर्षणकारिदुःशासनरूपेण क्रोधविभावेन तदाकृष्यमाणताहन्द्रौपदीरूपेण शोकविभावेन च प्रदर्शितेनानुभाववैचित्र्यमाधीयते, इति युक्तं विरुद्धरूपदीप्ततम-महणतमचित्तवृत्त्युचितानुभावयोजनम् ॥ १४ ॥ काव्यलक्षणे शब्दार्थयोर्विशेषणत्वेनोक्तानाम् 'अदोषौ' 'सगुणौ' 'सालङ्कारौ' इति पदानामर्थबोधायापेक्षितानां दोषगुणाऽलङ्काराणां सामान्येन स्वरूपमुक्त्वा सम्प्रति तद्विशेष्यभूतयोः शब्दार्थयोरपि स्वरूपनिरूपणमवसरप्राप्तमिति तत्प्रदर्शनपरसूत्रावतरणमाह-शब्दार्थयोः स्वरूपमाहेति-शब्दस्योपजीव्यत्वेन पूर्वनिर्देशः, अत्र काव्यव्यवहार्यशब्दस्वरूपप्रदर्शनमेव प्रकृतमिति-शब्दार्थयोरिति पदात् पूर्वम् 'अत्र' इति पदं पठनीयम् तथा च काव्ये एव वक्ष्यमाणचतुर्विधत्वं शब्दस्येत्यर्थलाभादन्यत्र दार्शनिकैय॑ञ्जनावृत्तेरस्वीकारेण व्यञ्जकशब्दाभावेऽपि न क्षतिः । गौण-लाक्षणिक-व्यञ्जकानां मुख्यः [वाचकः ] उपजीव्यः, लक्षकव्यञ्जकयोर्मुख्यगौणावुपजीव्यौ, व्याकस्य च त्रयोऽप्येते उपजीव्या इति तत्क्रमेगैव सूत्रे उपादानमाश्रितम्-मुख्य-गौण-लक्ष्यव्यङ्ग्यार्थेत्यादि-अत्रोपाधी. नामेव त्रित्वं न ह्युपधेयानां शब्दानाम् , नहि कश्चिद् वाचक एव, कश्चिल्लाक्षणिक एव, कश्चिद्वयञ्जक एवेत्यस्ति नियमः, अर्थविशेषमुद्दिश्य वाचकस्य तदितरार्थ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy