________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। सालङ्कारचूडामणौ काव्यानुशासने गृहीतस्याप्यवसरे त्यागो यथा"रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे ! मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः, सर्व तुल्यमशोक ! केवलमहं धात्रा सशोकः कृतः ॥७॥"
[ह० ना० अं-५, श्लो०-२४] गृहीतस्थाऽप्यलङ्कारस्यावसरे त्यागेन रसोपकारानुकूले काले त्यागमुदाहरतिरक्तस्त्वमित्यादिना । अयमर्थः हे अशोक ! वझुलवृक्ष ! त्वं नवपल्लवैः नूतनप्रवालैः, रक्तः लोहितोऽसि; अहमपि श्लाघ्यैः प्रशंसनीयैः, प्रियायाः जनकनन्दिन्याः, गुणैः सौशील्या-ऽनुपमसौन्दर्य हृद्यत्वा-ऽनवद्यत्वादिभिर्हृदयाकर्षणधुरीणैर्गुणैः, रक्तः प्रबुद्धानुरागोऽस्मि, हे सखे ! साम्यस्य प्रस्तुतत्वात् सखित्वोक्तिः । त्वां स्मरधनुर्मुक्ताः पुष्पेभ्यः परावृत्ताः शिलीमुखाः-भ्रमराः, आयान्ति त्वदुपरि निपतन्ति, मामपि कामधनुर्मुक्ता बाणाः, आयान्ति मदुपर्यपि निपतन्तः पीडयन्ति, कामस्य पुष्पधन्वत्वात् पुष्पेभ्यश्युता एव स्मरधनुमुक्ताः, वृक्षपक्षे भ्रमराः, नायकपक्षे च बाणाः शिलीमुखशब्देनैवोक्ता इति साम्यम् । यथा कान्तायाः-रमण्याः, पादतलस्य-चरणाधःप्रदेशस्य आहतिःआघातः, तव भवतः, मुदे विकासरूपहर्षाय भवति, "पादाघातादशोको विकसति बकुलो योषितामास्यमयः" इत्यादि कविसमयात् रमणीपादाघातादशोकस्य विकासः सिद्ध इति तस्य हर्षहेतुरसौ, तद्वन्ममापि कान्तापादतलाहतिर्मुदे हर्षाय, कुपितकामिनीपादाघातस्य प्रियः प्रियतरत्वेनादृतत्वादिति भावः, तदेवं सर्व, आवयोः तवाशोकस्य मम च विरहिणः, तुल्यं समानमस्ति, केवलं धात्रा दुर्दैवेन, अहं सशोकः कान्ताविप्रयोगजन्यशोकसहितः, कृतोऽस्मीत्ययमेवावयोर्भेदः । "रक्तोऽनुरक्ते नील्यादिरञ्जिते लोहिते त्रिषु" इति मेदिनी, 'भृङ्गबाणौ शिलीमुखौ' इत्यनेकार्थध्वनिमञ्जरी, “वक्षुलोऽशोके” इत्यमरश्च ॥ सीतावियोगसंजातविह्वलावस्थस्य दाशरथेरियमुक्तिः । अत्र च प्रतिपादमायोऽर्थो विभावत्वेनोपात्तः, यतस्त्वं नवपल्लवै रक्तोऽत एवाहं प्रियां प्रति प्रबुद्धानुरागोऽस्मि, तवोपरि भ्रमरनिपातेन तव पुष्पोद्गमसंसूचनान्ममापि कामबाणाघातपीडा जायते, कान्तापादाघातेन तव विकासमवलोक्याहमपि तस्मै स्पृहयामीत्यादिरीत्या व्याख्यानेन प्रति
For Private And Personal Use Only