________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १४।
१६३
अत्र प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानो विप्रलम्भोपकारी। न त्वेवं यथा"आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं,
भक्तिभूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी। पादाद्यांशाऽर्थों विप्रलम्भशृङ्गारस्य विभावः । अत्र अवसरे, त्यागमुपपादयतिप्रबन्धप्रवृत्तोऽपीत्यादिना, आधचरणत्रयनिव्यूढोऽपि 'रक्त-शिलीमुखशब्दयोः शब्दश्लेषः, कान्तापादतलाहतिरित्यत्र चार्थश्लेषः, पूर्वयोः शब्दयोः परिवृत्त्यसहत्वाच्छब्दश्लेषः, उत्तरत्र शब्दपरिवर्त्तनेऽपि श्लेषसद्भावेनार्थश्लेष इति विवेकः । व्यतिरेकविवक्षया चतुर्थचरणस्थस्य व्यतिरेकस्य विप्रलम्भशङ्गाररसानुगुणतमस्य प्रतिपिपादयिषया, त्यज्यमानो परिह्रियमाणः, विप्रलम्भस्योपकारकः । तदिदमवसरे गृहीतस्यापि त्यागे रसोपकारकत्वस्योदाहरणमुपयुक्तम् । रक्तत्वादिभिरुभयोः साधम्र्ये प्रतिपादितेऽपि सशोकत्वेनात्मन उपमेयस्य न्यूनतायाः प्रतिपादनात्माऽत्र व्यतिरेकः, "उत्कर्षा-ऽपकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः" [काव्यानुशासनम्-सू० १३०] इति लक्षणात् । इत्थं चात्रालङ्कारद्वयसन्निपात इति परास्तम् , व्यतिरेकस्यैव कविव्यापारविषयस्वात् । न च माऽस्त्वत्रालकारद्वयसन्निपातः किन्वलकारान्तरमेव नृसिंहवदिदं मन्यतामिति वाच्यम् , उभयोरुपकार्योपकारकभाव एव तथाविधसङ्करस्वीकारात् , यथा “अतिगाढगुणायाश्च नाजवगङ्गुरा गुणाः" इत्यत्रातिगाढगुणत्वेन प्रकृत. नायिकाऽप्रकृतकमलयोः साम्यं श्लेषेणोक्त्वा 'नाब्जवद्भङ्गुरा गुणाः' इति व्यतिरेक उक्तस्तत्र श्लेषो व्यतिरेकस्योपकारीत्युभयोः संकर इति स्वीक्रियते । शब्दालङ्कारेण श्लेषेण सहाालङ्कारस्य व्यतिरेकस्य कथमङ्गाङ्गिभाव इति मा शङ्कि, अर्थानुसन्धानविरहिण्यनुप्रास-यमकादावेवार्थालङ्कारेण सहाङ्गाङ्गिभावासम्भवस्य सर्वालङ्कारिकसम्मतत्वात् ।
पूर्वत्र रसोपकारापेक्षया काले त्यागस्य गुणत्वोदाहरणमुक्त्वाऽवसरे त्यागाभावस्य वर्जनीयतामाह-न त्वेवं यथेति-अग्रिमश्लोके यथाऽवसरे त्यागो न कृतस्तथा सति रसोपकारकत्वं नेति भावः। उदाहरति-आज्ञा शक्रशिखामणीत्यादि । बालरामायणनाटके-अहं धनुरारोप्यानारोप्य वा बलादपि सीता
Awmmam
For Private And Personal Use Only