SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १४। १६१ अत्र वाताहारत्वं पश्चाद्वाच्यमप्यादावुक्तमित्यतिशयोक्तिरनवसरे गृहीता, तथा हि-प्रथमत एव प्रथमपादे हेतूत्प्रेक्षया यदतिशयोक्तरुपादानं न तत् प्रकृतस्य दम्भप्रकर्षप्रभावतिरस्कृतगुणग. णानुशोचनमयस्य निर्वेदस्याङ्गतामेति, नहि वाताहारत्वादधिको दम्भस्तोयकणवतं नापि ततोऽधिकं दम्भत्वं मृगाजिनवसनमिति । शाठ्येन धर्माचरणरूपाडम्बरस्य, स्फुरितं परप्रतारणपूर्वकतदीयहिंसारूपं चेष्टितं, विदन् जाननपि, गुणान् धार्मिकत्वादीन् , ईहते आदरेणार्जयितुमिच्छति । उपरि चरणत्रयेण गुणानां परप्रतारणपरपीढनादिरूपं कृत्यं ज्ञात्वाऽऽपि, पामरो जनोऽमीषां गुणानां गौरवं गायतीत्याश्चर्यमिति तात्पर्यम्, “जाल्मस्तु पामरेऽसमीक्ष्यकारिणि च" इति हैमः, अर्थान्तरन्यासोऽलङ्कारः; अत्र कथमनवसरे ग्रहणमिति संगमयति-अत्र वाताहारत्वं पश्चाद् वाच्यमपीत्यादिना । अत्र व्रतत्रयमुदाहृतम्-मृगचर्मपरीधानं, मेघमुक्तजलकणिकापानं, वाताहारत्वं च, तदिमानि व्रतानि येन क्रमेणोदाहार्याणि तेन नोदाहृतानि, उत्तरोत्तरं हि तेषां तीव्रत्वमित्यविचार्य वाताहारस्वं यत् पश्चात् वाक्यं तत् पूर्वमेवोदाहृतम् , इत्यतिशयोक्तेरलङ्कारस्थानवसरे ग्रहणम् , तदेव पुनः स्पष्टयति-तथाहीत्यादिना । प्रथमत एव सर्वप्रथम, हेतूत्प्रेक्षया जगदाश्वासने हेतुरूपत्वेन वाताहारतायाः कथनेन, यदतिशयोक्तिरुपात्ता तत् प्रकृतस्य प्रकृतपद्ये व्यङ्ग्यस्य, दम्भप्रकर्षस्यआडम्बराधिक्यस्य, प्रभावेण, तिरस्कृतः-व्यर्थतां नीतो यो गुणगणस्तस्यानुशोचनं चिन्तनं, तन्मयस्य-तद्रूपस्य निर्वेदस्य शान्तस्थायिभावस्य रसस्य, अङ्गताम्उपकारकता, नैति न प्रामोतीति तत्र हेतुमाह-न हि वाताहारत्वादधिको दम्भ इत्यादिना । अयमाशयः--भत्र छलने हेतूत्प्रेक्षार्थमतिशयोक्तिराहता, तत्र भारोहक्रमेण पूर्व मृदु, ततस्ततः कठिनं तदनन्तरं च ततोऽपि कठिनं वाच्यमिति सर्वतः पूर्व यद्वाताहारत्वमुक्तं ततः कठिनो दम्भस्तोयकणिकापानं नास्तीति तस्य वाताहारतायाः पूर्व वाच्यत्वावसरः, एवं जलकणिकापानतो मृगचर्मवसनं नाधिकमपि तु सरलमिति ततोऽपि पूर्व तदुपादानावसर इत्येवावसरेऽनुपात्तत्वेनातिशयोक्तिनिर्वेदस्योपकारिका न जातेति भावः ॥ का० ११ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy