________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- सालकारचूडामणौ काव्यानुशासने
भिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखीभावदशायामुपनिबद्ध उपकारी । न त्वेवं यथा
"वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं,
ते ग्रस्ताः पुनरभ्रतोयकणिकातीववतैर्बहिभिः । तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैदम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥”
[भ० श० ८७] भावितया प्रतीतस्य, ईर्ष्यामानलक्षण-“पत्युरन्यप्रियासने दृष्टेऽथानुमिते श्रुते । ईर्ष्यामानो भवेत् स्त्रीणाम्" इति साहित्यदर्पणे तृतीयपरिच्छेदे [ २०६] लक्षितः; चर्वणाभिमुख्यं कुर्वन्निति-भाविनोऽपि शब्दव्यापारमहिम्ना चर्वणविषयतां सम्पादयन् , अवसरे इति पदं स्वयमेव विवृणोति-रसस्य प्रमुखीभावदशायामिति-ईर्ष्याधिप्रलम्भाख्यस्य रसस्यारम्भावस्थायामिति भावः। उपनिबद्धः श्लेष इति पूर्वोक्तविशेष्यार्थे निवेशितः, उपकारी परिपोषकः । अत्रत्य उपमालङ्कारः श्लेषालङ्कारश्च तस्य रसस्यास्वादनोन्मुखतायां कारणत्वं गतौ भाविनमीग्रॅविप्रलम्भाख्यं रसमुपकुरुत इति भावः ॥
अवसरे ग्रहणमुदाहृत्यानवसरे ग्रहणं वर्जयति-न त्वेवं यथेति । यथाऽग्रिमश्लोकेऽनवसरेऽलङ्कारग्रहणं तथा ग्रहणे नोपकारी इति सम्बन्धः । वाताहारतयेति-विषधरैः सः, वाताहारतया वायुमात्रभक्षणव्रतधारितया, आश्वास्य सर्वेषां विश्वासमाविर्भाव्य, जगत् , निःशेषितं-नाशितम् , वायुभक्षा वयमिति लोकान् प्रतार्य तैः कटुदंशनर्मार्यन्ते इति भावः; ते विषधराः, पुनरिति वाक्यालङ्कारे, अभ्रः-मेवैर्मुक्ताः, तोयकणिकाः-जलबिन्दवस्तेषां पानमेव, तीवं-कठिनं, व्रतं-कष्टसाध्यमनुष्ठानं येषां तैः, बर्हिभिः मयूरैः, अस्ताः गिलिताः, जगति जलधरमुक्तजलबिन्दुमात्राशना वयमिति स्वं रूपं प्रख्याप्येमे सर्पा अपि मयूरैक्षिताः; तेऽपि मयूरा अपि, क्रूरं-कठिनं, चमूरो:-चित्रमृगस्य, चर्मकृत्तिः, वसनं-वस्त्रं येषां तैः, लुब्धकैः व्याधैः, क्षयं नीताः नाशिताः, चर्ममात्रपरीधाना वयमिति निर्लोभस्वं सात्विकत्वं वाऽऽत्मनः प्रख्याप्येमे मयूरा व्याधैर्मारिताः । इति पादत्रयोक्तार्थसमर्थनायार्थान्तरन्यासमाह-दम्भस्य स्फुरितमिति । जाल्म:-असमीक्ष्यकारी मूर्यो जनः, दम्भस्य
For Private And Personal Use Only