________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १४ ।
१५९
अद्योधानलतामिमां समदनां नारी मिवान्यां ध्रुषं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥५५॥"
[र० अं० २. श्लो. ४] अत्रोपमा तदनुग्राहकश्च श्लेष ईर्ष्याविप्रलम्भस्य भाविनश्चर्वणाकुर्वाणाम् , समदनां सह मदनेन-मरुबकवृक्षेण वर्तत इति समदना ताम् , अन्यत्र सकामाम् , अन्यां तदतिरिक्तां, नारीमिव कामिनीमिव, इमाम् , उद्यानलतां पश्यन् , अहं वत्सराज उदयनः, देव्याः वासवदत्तायाः मुखं, कोपेन विपाटलाविशेषेण रक्ता, द्युतिः-कान्तिर्यस्यास्तथा, ध्रुवं निश्चितं, करिष्यामि ॥अन्न ध्रुवशब्दो भाविन्या ईर्ष्याया अवकाश-दाने जीवितमिव विन्यस्तः । अत्र लतादर्शनेन परकामिनीदर्शनकृता ईर्ष्या नायिकाहृदये कथमपि नोदेतुं शक्नोतीति विवेके तदुपपादनाय तत्रत्य प्रसङ्ग इत्थं वर्णित:
“वासवदत्तापरिगृहीता नवमालिकालता सम्प्रति न फुल्ला, माधवीलता तु मत्परिगृहीता फुल्लेति तद्दर्शनादीर्ध्यावशेन विपाटलद्युति मुखमहं देव्याः करिज्यामि" इति । यद्यपि तत्रत्यपूर्वापरपालोचनया नवमालिकालतैव राजपरिगृहीता, माधवीलता देवीपरिगृहीतेति लभ्यते तथा-हि-प्रथमेऽङ्के 'निपुणिका' कथं सुसंगता, हला सुसंगमे सुष्टु त्वयाज्ञाप्तम् , एतत् खलु विस्मयस्य कारणम् । अद्य किल भर्ता श्रीपर्वतादागतस्य श्रीखण्डदासनामधेयस्य धार्मिकस्य सकाशादकालकुसुमसंजननदोहदं शिक्षित्वाऽऽत्मनः परिगृहीतां नवमालिकां कुसुमसमृद्धिशोभितां करिष्यतीति [प्राकृतस्य च्छाया] ततो द्वितीयेऽङ्के-विदूषकः साधु रे श्रीखण्डदास धार्मिक साधु । येन दत्तमात्रेणैव तेन दोहदकेनेदृशी नवमालिका संवृत्ता । येन निरन्तरोभिन्नकुसुमगुच्छाच्छादितविटपा उपहसन्तीव लक्ष्यते देवी परिगृहीता माधवीलता। इति प्राकृतस्य च्छाया । एतेन सन्दर्भेण च विवेकोकविपरीतं [नवमालिका राजपरिगृहीता, माधवी देवीपरिगृहीतेति ] लभ्यते, इति स्पष्टमेव, तथापीर्ध्याकारण-राजपरिग्रहीभूतलताया विकास एवेत्येतावत् तात्पर्य तस्य ग्रन्थस्येत्यवसेयम् । 'अङ्गत्वेऽपि काले ग्रहणमित्यस्योदाहरणतां संगमयतिअत्रोपमा तदनुग्राहकश्च श्लेष इत्यादिना-नारीमिवेत्युपमा, तदनुग्राहकःतत्परिपोषकः, उत्कलिकाजृम्भाऽऽयासादिशब्देष्वर्थश्लेष ईर्ष्याविप्रलम्भस्य शृङ्गाररसभेदस्य मानविप्रलम्भान्तर्गतस्येया॑मानस्य भाविनः करिष्यामीति शब्देन
For Private And Personal Use Only