SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५८ सालङ्कारचूडामणौ काव्यानुशासने मालङ्कारप्राधान्येन प्रस्तुतो रसो गुणीकृतोऽपरिजिघटिषया । अङ्गत्वेऽपि कालेऽवसरे ग्रहणं यथा Acharya Shri Kailassagarsuri Gyanmandir P "उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणादायासं श्वसनोनमैरविरलैरातन्वतीमात्मनः । स्योदयनस्योक्तिरियमित्यर्थः । अलङ्कारस्य ताटस्थ्येनोपनिबन्धं वर्णयति तटस्थस्येव कविनोपरचितेति-अयमाशयः - वत्सराजस्य तदनुरक्तस्येव नेयमुक्तिः कविना निबद्धा, अपितु, उदासीनस्य कस्यचन किमपि चित्रं दृष्ट्वा यथोक्तिः सम्भाव्यते तेन रूपेणेव इति हेतोः, श्लेषानुगृहीतोपमालङ्कारप्राधान्येनेति - श्लेषसहकृतेनोपमालङ्कारेण प्रधानतां भजमानेन, प्रस्तुतः प्रकृतः, रसः सम्भोग - शृङ्गारः, गुणीकृतः अप्राधान्यं गमितः । कुत इति चेदाह - अपरिजिघटिपति- तादृशं रसं परिघटयितुमिच्छाया अभावेन । अयमाशय: - अत्र राजहंसीवेत्युपमालङ्कारो लीला-पद्म-पक्षपात- मानस-शब्दैः श्लिष्टैः परिपोषित इति तत्रैव कवेः परिजिघटयिषा, प्रकृतो रसस्तु तदा परिजिघटयिषितोऽनुभूयेत यदि राज्ञो मुखाद् गाढानुरागसूचकशब्दावली निःसारिता स्यात् कविना, तत्तु न कृतमिति तटस्थता राजाऽन वक्तीति दर्शितमिति न रसपरिपोष इति ताटस्थ्येन रसानु - पकारकोऽलङ्कार इति बोध्यम् । केचित्तु 'नः' इति पदेन तत्र चित्रफल के राज्ञोऽप्यभिलिखिततया चानुरागः सूच्यत एवेति कथमिह ताटस्थ्यमिति शङ्कन्ते, तन-केयमिति पदेन साम्प्रतमपि सा राज्ञोऽपरिचितेति प्रतिपादयताऽपरिचितायामनुरागस्यासम्भवः सूचित इति ताटस्थ्यमक्षतमेव ॥ अङ्गत्वेऽपि रसाऽपेक्षया प्राधान्येऽपि काले ग्रहणम् अवसरे निबन्धो यथा— उद्दामोत्कलिकामित्यादि । 'अर्थः- अकालकुसुमजनकदोहदेन प्रफुल्लां नवमालिकां पश्यन् राजा वत्सराजः प्राह — उद्दामा - बहवः, उद्गताः कलिका यस्यास्तां, पक्षे समधिकोत्कण्ठां, विपाण्डुरा - पीता, रुक् - कान्तिर्यस्याः, एकत्र परिपाकेन, अन्यत्र विरहेण, क्षणात् तस्मिन्नेवावसरे, प्रारब्धा जृम्भा पुष्पाणां विकासो यया, अन्यत्र मन्मथोद्रेककृतोऽङ्गमर्दों यस्यास्ताम्, अविरलैः अविच्छिन्नैः, श्वसनोद्गमैः वसन्तमारुतोल्लासैः, आत्मनः लतालक्षणस्य, आयासं आयासनमान्दोलनायत्तम्, अन्यत्र निःश्वासपरम्पराभिश्वात्मन आयासं हृदयस्थितं सन्तापम् । आतन्वतीं प्रकटी 2 For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy