________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १४। १५७ णोचितान विभावानुभावान संपादयन् बाधकत्वेन भातीति न प्रकृतरसोपकारी। ताटस्थ्येन यथा
"लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः। मानसमुपैति केयं चित्रगता राजहंसीव ॥"
[र० अं० २. श्लो. ८] फलहकलिखितसागरिकाप्रतिबिम्बदर्शनाभिजाताभिलाषस्य वसराजस्येयमुक्तिस्तटस्थस्येव कविनोपरचितेति श्लेषानुगृहीतोपकानुरागिनायकहृदये समुद्यतोऽनुरागस्य वर्णनया । सामाजिकहृदयेषु समुद्भवतः शृङ्गारस्य प्रतिपक्षिणाविति बाधकत्वेनैव भातः, प्रकृतस्य शृङ्गारस्य करुणेन सह विरोधात् । यद्यपीष्टनाशादिविभावस्य करुणरसस्य सामग्री नात्र समवैति, नाल्पीयसा सुखविगमेनेष्टनाशसद्भावोऽपि तु यत्रात्यन्तिकः प्रियविगमः [मरणजन्यः] तत्रैवास्योद्भवः, इतीह करुणरसस्य स्थायिभूतः शोको न प्राप्तप्रकर्ष इति तस्येहासम्भवस्तथापि परकीयदुःखदर्शनजन्मनः खेदस्य शोकप्रथमस्वरूपता, स चोगुद्ध इति स्थायितामनापन्नोऽपि भावतया तिष्ठन् शृङ्गारप्रतिकूल एवेति बोध्यम् ॥ ताटस्थ्येन नोपकारकत्वेन न बाधकत्वेन वाऽलङ्कारनिवेशो यथा-लीलेत्यादि ।
अर्थः-नायको वत्सराजः कदलीगृहाभ्यन्तरमिलिते चित्रफलके आत्मना सहाभिलिखितां सागरिकां पश्यबाह-लीलावधूतेत्यादि-लीलया-विलासेन, अवधूतं पनं करावस्थितकमलं यया, अन्यत्र लीलया-शरीरशोभया, अवधूता-तिरस्कृता, पद्मा-लक्ष्मीर्यया सा, नः अस्मद्विषये, अधिकं पक्षपातं-स्नेहकृतं भावातिशयं, कथयन्ती प्रकटयन्ती, चित्रगता प्रतिकृतिलिखिता, का इयम् अज्ञातनामरूपा राजहंसीव, नः मानसं हृदयम् , उपैति प्रविशति, राजहंस्यपि लीलया-गतिविलासेन, तत्कृतकम्पेन कमलमवधुनोति, पक्षयोः-पक्षावयवानां वा पातमपि कथयति, गमनसमये पक्षाणां पातं प्रकटयति, मानसं-हृदयं तदाख्यं सरश्चोपैतीति ॥ अत्र श्लोकार्थज्ञानाय तत्रत्यं प्रकरणमाह-फलहकलिखितेत्यादि-वत्सराजस्येयमुक्तिरित्यन्तं-फलहके चित्रफलके, लिखितं सागरिकायाः-सागरिकात्वेन ख्याताया रत्नावल्याः, प्रतिबिम्बस्य-प्रतिकृतेर्दर्शनेन, अभिजात:-तां प्रति प्रवृत्तः, अभिलाष:-तस्प्राप्तीच्छा यस्य तस्य वत्सराजस्य तत्रत्यनायक
For Private And Personal Use Only