SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥” [२० अं० १ श्लो. १६] अत्र पीडयेवेत्युत्प्रेक्षालङ्कारोऽङ्गी संस्तदनुग्राहकश्चार्थश्लेषः करुकचराशिः, विरचितां विन्यासविशेषापादनेन रमणीयता नीता, स्नग्दामशोभां मालाश्रियं, त्यजति वेणीरूपेण बद्धस्य केशसमूहस्य शोभासम्भारमाधातुं विन्यस्तै नावर्णाकृतिभिः पुष्पैर्यथावन्माल्यश्रीः समुत्पादिताऽऽसीत् , सा प्रचलचरणं नृत्यन्त्यास्तस्या अनिश्चितस्थलपातिचरणकृतकम्पनेन विघटितेति मालाश्रीहीनेति तात्पर्यम् ; इमौ पादलग्नौ-नृत्यवशात् त्रुटितसन्धिकावपि तत्प्रेम्णा तस्यागमनिच्छन्ती, अत एव पादयोः सत्तौ, नूपुरौ च, द्विगुणतरं माऽऽवां त्यजतमित्यभ्यर्थनयेव बहुतरं, क्रन्दतः रुदतः, कम्पानुबन्धात् चलनसातत्यात्, व्यस्तः स्थानान्तरं प्राप्तः, अयमस्याः, हारः-मौक्तिकमाला, अनवरतं सततम् , उरः वक्षःस्थलं, हन्ति ताडयति, उत्तालं नृत्यन्त्या हार उच्छलितोच्छलितः पततीति ताडयन्निव लक्ष्यते इति भावः, कीडन्त्या इत्युक्तं नृत्यम् , तत्स्वरूपं परिचाययितुं क्रियाविशेषणमाह-पीडयेवेत्यादि-नृत्यजनितसंचारकृत [भारगौरवसमेधित] खेदेन, स्तनभरेण विनमतः-वक्रतामुपगच्छतः, मध्यस्य-कटिप्रदेशस्य, भङ्गस्तदनपेक्षं तदनादृत्य यथा स्यात् तथा क्रीडन्त्याः, प्रचलचरणपातं नृत्यन्त्या मे स्तनभरेण मध्यदेशो भङ्घयत इति भीतिमपहाय नृत्यमाचरन्त्या इत्यर्थः ॥ अत्र कथमलङ्कारस्य प्रकृतरसबाधकत्वमिति विवृणोति-अत्र पीडयेवेत्युत्प्रेक्षालङ्कारोऽङ्गीत्यादिना-पीडयेवेत्यनेन हेतुरुत्प्रेक्ष्यत इत्युप्रेक्षालकारः स च श्लेषापेक्षया प्रधानमित्यङ्गी, तदनुग्राहकः-तत्सम्पादकः, अर्थश्लेषः, स च आकुल:-अस्तव्यस्तः अन्यत्र व्यग्रश्च, पादलग्नौ-चरणपरिहितो, प्रसादनाद्यर्थ चरणमाश्लिष्यन्तौ च, हन्ति-ताडयति, पातेन व्यथयति, अनभीप्सितकारितादण्डरूपं ताडनं वा करोतीत्यर्थः, श्लेषो हि पीडयेत्यस्य पुष्टिं विदधति, एतौ चालङ्कारौ करुणरससमुचितान् विभावादीन् उपस्थापयतः, “इष्टनाशादनिष्टाप्तेः करुणोदयदर्शनात्" । आकुलस्य केशवाशस्य क्रन्दतार्नुपुरयोः हन्यमानस्योरसश्च शोच्यत्वेन करुणालम्बनत्वमेव । एतादृशविपरीतसामग्रीसमुपस्थापकाविमौ हेतूत्प्रेक्षाऽर्थश्लेषालङ्कारौ नायिकाविषय For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy