SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या ० १ सू० १४ । १५५ बाधकत्वेन यथा " स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः, wwwwwwww " सू. १५ ] इति सूत्रेण जातिशब्देन व्यवहियते, तथापि बहुतरप्रसिद्ध नाम्नाऽर्थतो वा स्वभावोक्तिपदेन कथनमिति बोध्यम् । ध्वन्यालोकेऽपि द्वितीयोयोते “भत्र स्वभावोक्तिरलङ्कारो रसानुगुणः" इत्युक्तम् । केचित्तु - 'वस्तुतोऽन न स्वभावोक्तिरलङ्कारः स्वस्यासाधारणधर्मस्य वर्णन एव तदलङ्कारस्वीकारात्, नह्यत्र भ्रमरस्वासाधारणो धर्मः कश्चिदुपनिबद्धः, चलापाङ्गादिस्पर्शस्य तथाभूतत्वाभावादिति व्यतिरेकालङ्कार एवाङ्गिकचमत्कार भूमिरिह' इत्याहुः, वृत्तौ 'भ्रमरस्वभावोक्ति'शब्दे च भ्रमरस्य स्वभावे उक्तिर्यस्येति व्यधिकरणबहुव्रीहिमाश्रित्य समस्तस्य पदस्य व्यतिरेकपरत्वमवगच्छन्ति । यच्च केचिदिहाद्यांशे रूपकालङ्कारमप्याहुः, त शोभनम् - भ्रमरे हठका मुकव्यवहारस्य समासोक्तिकारणभूतस्य स्पष्टं प्रतीयमानत्वेन रूपकासंभवात् कुत्राऽपि तादात्म्यारोपाप्रतीतेश्च समासोक्तिस्तु तथा सम्भवन्त्यपि स्वभावचमत्कार निर्देशमुखेनैवात्र माधुर्योपलब्धिरिति पश्चात् क्रियते, व्यतिरेकोऽपि न प्रकृतरसस्य तथोपकारको यथा स्वभावोक्तिः । न च भ्रमरासाधारणधर्मस्यानुल्लेखान्न स्वभावोक्तिसंभव इति वाच्यम्, पद्मपरिचुम्बनादेतत्स्वभावत्वेन पद्माकाराक्षिकर्णमुखादिसम्पर्कात् तस्यासाधारण एव स्वभावो व्यञ्जनया गम्यते किन्त्वलङ्कारो रसापेक्षया गुणीभूत इति रसाङ्गतां रसानुगुणां गतः । r वयमिति बहुवचनेन सकलसुखसाधनस्वामित्वकृत आदर आत्मनि व्यक्तः, अस्मच्छन्दश्च आसमुद्रक्षितिपतित्व-पुरुवंशोत्पन्नत्व-विविधा - भिलाषचाटुकप्रवणत्वादिरूपार्थान्तरसंक्रमितवाच्यः । त्वमित्यत्रैकवचनेन चास्फुटज्ञानत्वेन तस्य निकृष्टत्वं बोधयति, युष्मच्छब्दश्व स्फुटज्ञानराहित्याद्यर्थान्तरसंक्रमितवाच्यः, इत्याद्यभिज्ञानशाकुन्तलटीका कृद्भिर्व्याख्यातम् ॥ अलङ्कारस्य बाधकत्वेन निवेशो न रसानुगुण इति पूर्वमुक्तमुदाहरति- बाधकत्वेन यथा-'स्स्रस्तः स्रग्दामशोभामिति । अर्थः-नायको वत्सराज उपवनोपविष्टो मदनमहोत्सवप्रसङ्गे नृत्यन्त्यौ चेट्यौ दृष्ट्वा [ निर्वर्ण्य ] अहो मधुरोऽयमासां निर्भरः क्रीडारसः, तथा हि-स्त्रस्त इत्याद्याह । अस्याः क्रीडन्त्याः क्षीबायाः मत्तायाः स्रस्तः विगलितबन्धनः, अत एव आकुलः विलुलितः, भस्तव्यस्तभावेन वर्तमानः, केशपाशः For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy