SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ५३ । १४७ १४७ wwwwwwwwwer wa इत्युक्तम् , अत्र अङ्गिरसाश्रिता गुणाः, अङ्गभूतशब्दार्थाश्रिता अलङ्कारा इति तयोर्भेदः स्वसिद्धान्तसिद्धः । एतेन "शौर्यादिसदृशा गुणाः, केयूरादितुल्या अलकारा इति गुणालङ्कारयोर्विवेकमभिधाय [लोके ] संयोग-समवायाभ्यां शौर्यादीनामस्ति भेदः, इह [साहित्ये ] तूभयेषां समवायेनैवावस्थितिरित्यभिधाय, तस्मात् गड्डरिकाप्रवाहेण [मेषाणां गतानुगतिका पलिगतिर्गडरिका, तद्वत् प्रवाहेण, अविवेकमूलमिति यावत् ] गुणा-ऽलङ्कारभेदः [न वास्तविकः ]" इति भामहविवरणे यद् भट्टोअटोऽभ्यधात् तन्निरस्तम् , गुणालङ्कारयोराश्रयकृतभेदस्य पूर्वमुक्तत्वात् । किञ्च कवयः सन्दर्भेष्वलङ्कारान् प्रति व्यवस्यन्ति न्यस्यति च, न गुणान् प्रति, गुणानां नियतवृत्तिरसधर्मत्वात् , अपोद्धाराहारयोरपि वाक्यस्य पोषणदूषणाजनकत्वाञ्च । तत्र शब्दालङ्कारापोद्धारो यथा "अलङ्कृतजटाचक्रं चारुचन्द्रमरीचिभिः । मृडानीदत्तदेहाधं नमामः परमेश्वरम् ॥" [ ] अत्र स्थितस्य द्वितीयपादेऽनुप्रासस्य 'तरुणेन्दुमरीचिभिः' इति पाठपरिवर्तनेन अपोद्धारे कृतेऽपि परमेश्वरविषयकरत्युद्धोधे विशेषाभावाद् गुणतोऽलङ्कारस्य भेदः स्पष्टः । अर्थश्चोक्तोदाहरणस्य स्पष्टः । एवमर्थालङ्कारापोद्धारो यथा "श्यामां स्मितासितसरोजदृशं करागैरिन्दौ विभूषयति बालमृणालकल्पैः। आरेभिरे रचयितुं प्रतिकर्म नार्यः, कार्याणि नायतदृशोऽवसरे त्यजन्ति ॥" [ ] अर्थः-स्मित-ईषत्फुल्लम् , असितसरोज-नीलकमलमेव, दृग्-नेत्रं यस्यास्ता, श्यामां-रात्रिं, कामिनीत्वेनाध्यवसिताम् , इन्दौ-चन्द्रमसि, बालानिअचिरोद्गतानि [ मृदूनि ], मृणालानि-बिसानि, तत्कल्पैः-तत्सदृशैः, कराप्रैःकिरणप्रान्तभागैः, विभूषयति-अलङ्कुर्वति सति, नार्यः-कामिन्यः, प्रतिकर्म-नेपध्यालङ्कारं, रचयितुं-विधातुम्, मारेभिरे-प्रवृत्ताः, आयतदृशः-दीर्घदृष्टयः [दूरदर्शिन्यः ], अवसरे प्राप्ते, कार्याणि-कर्तव्यानि, न त्यजन्ति-अवसरोचितकार्यकरणे सावधाना भवन्ति ॥ __ अत्र चन्द्रकृतस्वप्रियरात्रिभूषणरूपोद्दीपनविभावालोकनेन तासामपि रतिसमयः समीपवर्तीति विज्ञाय ता अपि तत्साधनालङ्कारादिकर्मणि प्रवृत्ता इत्ययमों दूरदृशामवसरोचितकार्यकरणस्वरूपेण सामान्येन समर्पित इत्यर्थान्तरन्यासोऽल For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy