________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४८
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
ङ्कारः । द्वितीयचरणे च 'बालमृणाल कल्पैः' इत्युपमालङ्कारः, तस्य परित्यागाय तत्स्थाने 'केलि चकोरलेयैः' इति परिवर्तने कृतेऽपि प्रस्तुतश्रृंगाररसस्य न पुष्टिर्न वा दूषणम् ।
अर्थालङ्कारस्याहरणं [ सन्निवेशो ] यथा पूर्वोदाहृत [ दशमे शिक्षालक्षणसूत्रे "पर्वतमात्रे रत्नानि यथा" इति निरूपणोक्त - ] "नीलाश्मरश्मि० " इति पद्यद्वितीयचरणान्ते 'तटान्तरेषु' इत्यपनीय तत्स्थाने 'मृगाक्षि सानौ' इति परिवर्तनेनोपमालङ्काराहरणेऽपि न कश्चिद् विशेष इति । [ मृगस्याक्षिणी इव rक्षिणी यया इति विग्रहे समासगतोपमा स्पष्टा ]
इस्थमलङ्काराणामपोद्धाराहारयोः कविस्वेच्छाविषयत्वं गुणानां तु न तथा संभव इति स्पष्टोऽनयोर्भेद इति नायं गहरिकाप्रवाह इवाविवेकनिबन्धन इति बोध्यम् । उक्तञ्च काव्यप्रकाशेऽपि “अचलस्थितयो गुणाः" इति ।
wwwwww
www.
तथा " काव्यशोभायाः कर्तारो धर्मा गुणाः " [ का० सू०, अधि० ३, अ० १ सू० १] " तदतिशय हेतवस्त्वलङ्काराः " [ का० सू० अधि० ३, अ० १. सू० २ ] इति वामनेन यो विवेकः कृतः सोऽपि व्यभिचारी,
"
wwwwwwe
wwww
तथाहि
'गतोऽस्तमर्को, भातीन्दुः, यान्ति वासाय पक्षिणः ।' इत्यादौ प्रसाद-श्लेषसमता-माधुर्य-सौकुमार्यार्थव्यक्तीनां गुणानां सद्भावेऽपि काव्यव्यवहारस्याप्रवर्तनात्,
" अपि काचिच्छ्रुता वार्ता तस्यन्नियविधायिनः । इतीव प्रष्टुमाया तस्याः कर्णान्तमीक्षणे ॥” [
]
इत्यादौ चोत्प्रेक्षाऽलङ्कारमात्राद् विवक्षितत्रिचतुरगुणात् काव्यव्यवहारदर्शनाच rai रसादिसद्भावे एव गुणत्वमन्यथा न, अलङ्काराणां च स्वतत्राऽपि स्थितिरिति व्यभिचारः स्पष्ट एवेति पूर्वोक्त एव गुणालङ्कारविवेक इति निर्णीतं विवेके । तत्रालङ्कारस्य रसोपकारकत्वं यथा शब्दालङ्कारस्य -
wwwww
“अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला ॥”
[ का० प्र०८, ३४२ ]
wwww
For Private And Personal Use Only